________________
३४६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
जेणं विणिम्मिया उ, विहिणा सो चेव जइ परं मुणइ।
महिलाणमणं बहुकूड-कवडभरियं दुरवगाहं ॥ रक्षणीयस्त्वया तात!, सदाप्यात्मा प्रयत्नतः । तन्नास्ति यन्न कुर्वन्ति, स्त्रिय: कोपवशं गताः ॥१२८॥ तातात्मा विधृत: कष्टा-न्मया वार्ता निवेदिता। साम्प्रतं च वनं यामि, दु:खदग्धस्तवाज्ञया ॥१२९।। श्रेष्ठिना भणितं वत्स!, गच्छ स्थानं समीहितम् । भूयोऽपि दर्शनं भूया-देवमुक्त्वा गत: शुकः ॥१३०॥ तिर्यग्योनौ विजातोऽपि, वरमेषो विहङ्गम: । यस्यैषा कोमला वाणी, विवेकश्च सुनिर्मल: ॥१३१।। कृतं मे गृहवासेन, विचारेणापि मे कृतम् । सर्वसङ्गं परित्यज्य, जिनधर्मं करोम्यहम् ॥१३२। द्वारि सार्थ: समायात-स्तत्रैवावासितश्चिरम् । राजा दृष्टश्च पृष्टश्च, व्रतं देव! करोम्यहम् ॥१३३।। अष्टाह्निकामहं कृत्वा, महामहपुरस्सरम् । सप्तक्षेत्र्यां धनं दत्त्वा, निश्चक्राम गृहादसौ ॥१३४।। सुस्थिताचार्यपादान्ते, दीक्षां जग्राह निर्मलाम् । विजहार महीपीठे, पठनङ्गादिकं श्रुतम्॥ पतिपुत्रपरित्यक्ता, निस्सारा शीलवर्जिता । राजगृहीतसर्वस्वा, पुरादपि बहिष्कृता ॥१३६।। वज्रा वज्राहतेवोच्चैः, पर्यटन्ती महीतले । निशाकरपुरे प्राप्ता, यत्राजन्यङ्गजो नृपः ॥१३७।। जात: काष्ठानगारोऽपि, गीतार्थः श्रुतनिर्मल: । गुर्वाज्ञयाथ कार्येण, निशाकरपुरे गतः ॥१३८।। षष्ठपारणके काष्ठो, भिक्षामटन् गृहे गृहे । कथञ्चिद्भावियोगेन, वज्राया गृहमागत: ॥१३९॥ मध्यस्थया तया दृष्टो, दूमिता निजमानसे । मारयामि ह्युपायेन, केनाप्येवं तत: सुखम् ॥१४०॥ भिक्षाभोजनमध्यस्थं, निजाभरणमेतया । कृत्वा [च] क्रूरचित्तेन, दास्या हस्तेन दापितम् ॥१४१॥ नातिदूरं गते तस्मिन्, कोलाहल: कृतोऽनया। शस्त्रव्याकंरास्तूर्ण-माजग्मुर्दण्डपाशिका: ॥१४२॥ तैरूचे किंनिमित्तोऽयं, भद्रे! रोलो विधीयते । सङ्कल्प्य च तयाभाणि, तेषामुत्तरमीदृशम् ।।१४३॥ 'भूषणानि बहिर्मुक्त्वा, प्रविष्टाहं गृहान्तरे। भिक्षार्थं निर्गता याव-त्तावच्छून्य: करण्डकः ॥१४४॥ यात यात द्रुतं लात, यावद् दूरं न गच्छति | धावितास्ते निरुद्धोऽसौ, भिक्षामध्ये निरूपितम् ॥१४५।। भूषणं विस्मितो लोको-ऽप्यहो वेषविडम्बना । तलवरेण साश्चर्य, नरेन्द्राय निवेदितम् ॥१४६।। साधुवेषधर: कोऽपि, पाखण्डी श्वेतवस्त्रभृत् । लोप्त्रहस्तो मया लब्ध:, को दण्डस्तस्य कथ्यताम्। व्रतं च तस्करत्वं च, विरुद्धमिव लक्ष्यते । आनीय दर्शयास्माकं, येन दण्डं करोम्यहम् ॥१४८॥ काष्ठ: कृतमहाकष्टः, सर्वसत्त्वहितावहः । तलारेण समानीतः, सर्वतो जनवेष्टित: ॥५४९॥ । दर्शनादेव विज्ञातो, धात्र्या काष्ठमहामुनि: । प्रधाविता च वेगेन, सम्भ्रमभ्रान्तलोचना ॥१५०॥ पादग्राहं विधायासौ, रुदिता दुःखदुःखिता । पृष्टा सा च नरेन्द्रेण, धात्री रोदनकारणम् ।।१५१॥ तयापि कथितं सर्वं, यावदेष पिता तव । तत् श्रुत्वा लज्जितो राजा, स्थितोऽधोमुखदृष्टिकः ॥१५२॥ धात्र्याभाणि महाभाग!, विश्वविश्वहितावह! । कथं ते व्यसनं जातं, मुनिराह न वेदम्यहम् ॥१५३॥ १ आभरणानि-BC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org