________________
अधिकार १६ / श्लोक २९९-३१० / काष्ठश्रेष्ठिकथा २
I
1
I
राजा पृथ्वीपतिर्भावी, भोक्ष्यते योऽस्य मञ्जरीम् । श्रुतमेतद् गृहस्यान्तः स्थितेन ब्रह्मकर्मणा ॥ १०० ॥ प्रदानं वा निदानं वा, यदा कोऽपि न यच्छति । स्वत एव ततः साधू, निर्गतौ मन्दिरात्ततः ॥ १०१ ॥ वज्रा वज्रोपमं वाक्यं!, भणिता तेन द्विजातिना । गृहकुर्कुटमांसेन, भोक्तव्यमद्य मे प्रिये ! ॥ १०२ ॥ पुण्यसारसमानोऽयं, कुर्कुटो मम वर्तते । अन्यकुर्कुटमांसेन, भोजनं तव दीयते ॥ १०३ ॥ 'प्रतिपन्नं न चैतेन । तया सोऽपि निपातितः । ततो 'राद्धुं समारब्धा, पुत्रोऽपि गृहमागतः ॥१०४|| मातर्मे भोजनं देहि, पाठको मां हनिष्यति । उपविष्टस्तया दत्ता, सैव कुर्कुटमञ्जरी ॥ १०५ ॥ लेखशालां गतः पुत्रो, जारश्च गृहमागत: । निविष्ट | भोजनं कर्तुं पिशितं परिवेशितम् ॥ १०६ ॥ न दृष्टा मञ्जरी तेन, वज्रा पृष्टा व मञ्जरी ? । तयोक्तं पुण्यसारेण भक्षिता सा न विद्यते ॥ १०७॥ भणितं मे तया कार्यं, किमेतत्पिशितेन मे । पुत्रोदरं विपाट्याशु, मञ्जरी मम दीयताम् ॥ १०८ ॥ प्रतिपन्नं तया धात्री, धावित्वा पुरतो गता । पुण्यसारं समादाय, नष्ट्वा देशान्तरे गता ॥ १०९ ॥ निशाकरपुरे तत्र, निस्सन्तानो नृपो मृतः । दिव्यैश्च पुण्यसारोऽयं, प्रपन्नोऽजनि भूपतिः ॥ इतश्चेतश्च सर्वत्र, पुण्यसारो गवेषितः । वज्रया न पुनर्दृष्टो, जाता वज्रसमाहता ॥ १११ ॥ देवशर्मद्विजेनोक्ता, किं दृष्टो निजपुत्रकः । तयोक्तं न मया दृष्ट- स्तेनोक्तं नाशितस्त्वया ॥११२॥ परित्यक्तो द्विजेनापि, तया सह समागमः । शुशोचासौ विशेषेण, दुःखव्रातसमाहता ॥ ११३॥ न पतिर्न च पुत्रो मे, जारोऽपि च परामुखः । इहैव विधिना दत्तो, विपाकः पापकर्मणाम् ॥ ११४|| दरभग्नं गृहं जातं, गृहाचारः क्षयं गतः । शिष्टैः समागमो मुक्तो, भृत्यैश्च भेजिरे दिशः ॥ ११५ ॥ काष्ठश्रेष्ठी समायातो, गृहाचारदिदृक्षया । दृष्टं निजगृहं तेन, शून्यं श्मशानसन्निभम् ॥ ११६॥ विस्मयापन्नचित्तेन, भणित: श्रेष्ठिना शुकः । पुण्यसारस्तव भ्राता, किमर्थं नेह दृश्यते ? ॥ ११७ ॥ कुर्कुट : केन कार्येण, पर्यटन्नावलोक्यते । पञ्जरं शून्यमाधाय, क्व गता सारिका वद? ॥११८॥
T
मौनमाधा, स्थितो नैव प्रजल्पति । रुष्टेन श्रेष्ठिना प्रोचे, साक्षेपं कर्कशं वचः ॥ ११९ ॥ पालितो लालितो नित्यं, भोजितो भव्यभोजनम् । रेरे कीर ! परो जातो, वार्तामात्रेऽपि संशयः ॥ १२०॥ अश्रूणि मुञ्चता तेन, शुकेनेदं बभाषिरे । त्वं तात ! न विजानासि, तर्जयन्तीं पुनः पुनः ॥१२१॥ वस्त्रं निष्पीलयन्तीं च, स्थगयन्तीं मुखं मुहुः । स्वभार्यां विहिताकार्यां, वज्रां वज्रसमप्रभाम् ॥१२२॥ मुञ्च मां पञ्जराद्येन, सर्वं वच्मि परिस्फुटम् । मोचितः कथितं तेन, मूलतो गृहचेष्टितम् ॥ १२३॥ वज्रा मूलमनर्थानां, सङ्क्षेपादिति भाव्यताम् । चित्ते खेदो न कर्तव्यो, ज्ञाततत्त्वेन धीमता ॥ १२४ ॥ स्त्रियो हि सर्वदोषाणां मूलमाहुर्मनीषिणः । यदेताश्च प्रकुर्वन्ति, कथितुं तन्त्र पार्यते ॥१२५॥ :-हंसेण समं रमिऊण, कमलिणी रमइ महुयरेणावि ।
यतः -
सियकसिणनिव्विसेसाई, हुति महिलाण हिययाई ।। १२६ ।।
३४५
१ तत्प्रतिपन्नमेतेन तथा BJC ॥ २ राहुमारब्धा - BCI ३ ते - BC || ४ दिव्यैः पुण्य BJC || ५ मे दृ BJC ६ मादाय - BC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org