________________
३४४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
अर्थहीन: पुमान् लोके, तृणादपि लघूयते । अर्थोऽयं सर्वसौख्यानां, गौरवस्य च कारणम् ॥७३॥
यत:-अर्थयुक्तः कुरूपोऽपि, नलकूबरतायते ।
जल्पन्नपि कठोराणि, ह्यर्थवानमृतायते ॥७४॥ यस्यार्थस्तस्य मित्राणि, यस्यार्थस्तस्य बान्धवाः । यस्यार्थ: स पुमान् लोके, यस्यार्थः स च पण्डितः॥ गृहचिन्ता त्वया कार्या, वार्या दुर्जनसङ्गतिः । शरीरस्थं सदा धार्य, शीलाभरणभूषणम् ॥७६॥ शुकश्च सारिका चैषा, कुर्कुटोऽपि प्रबोधकृत् । पुण्यसारसमं ज्ञेय-मेतत् त्रिकमपि त्वया ॥७७|| प्रतिपन्नमनया सर्वं, श्रेष्ठी तुष्टः स्वमानसे । सामग्री कर्तुमारब्ध, उदारस्थिरमानसः ॥७८॥ गृह्यन्ते वरभाण्डानि, निरूप्यन्ते सहायका: । सम्बलानि विधीयन्ते, दम्यन्ते सुरभीसुता: ॥७९॥ एवं समस्तसामग्री, विधाय विधिना तत: । प्रशस्ते तिथिनक्षत्रे, दध्यादिकृतमङ्गल: ।।८०॥ प्राची दिशं समाश्रित्य, ससारासौ शनैः शनैः । बलीवादिसार्थे, स्थलेन सुखवर्त्मना ।।८१।।
देवशर्मद्विजोऽप्येति, प्रत्यहं श्रेष्ठिमन्दिरे । पुष्पाण्यादाय नि:शङ्को, देवपूजनहेतवे ॥८२॥ मिथो जल्पेन हास्येन, नर्मणा दानकर्मणा । वज्राया मानसं तेन, द्विजेन स्ववशीकृतम् ॥८३॥ क्वचिद्भुङ्क्ते क्वचिच्छेते, तत्रैव विगतत्रप: । सारिका च शुकं वक्ति, नि:स्पृहा कर्कशं वचः ॥८४॥ शुक! त्वं न शुना तुल्य:, स्वस्वामिगृहरक्षकः । स्वामिभक्तो विनीतश्च, कृतज्ञ: प्रभुभक्तिमान् ।।८५।। शालिसिक्थानि साराणि, दाडिमीबीजपुञ्जकम् । तातेन ते स्वहस्तेन, दत्तं तदपि विस्मृतम् ॥८६।। तुण्डिक! त्वं कृतघ्नोऽसि, ह्यद्रष्टव्योऽसि सर्वदा । नोपकारो धृतश्चित्ते, तातस्यापि न लज्जितम्॥ अहो पञ्चदिना: प्राणा:, प्रियास्तेन यश: स्थिरम् । एवं निर्भय॑मानोऽपि, तया कर्कशया गिरा।। शुकश्च समयापेक्षी, काष्ठमौनेन तिष्ठति । न नारीवत्पुमांसस्तु, ह्यनालोचितकारिण: ॥८९॥ प्रविशन्तं समालोक्य, द्विजं पश्चिमवर्त्मना । जजल्प सारिका रुष्टा, साक्षेपमीदृशं वचः ॥९०।। रेरे दासीसुत: कोऽय-मकर्तव्यविधायकः । अपद्वारेण तातस्य, गृहमागन्तुमिच्छति ॥९१।। सविषादं देवशर्मेण, जल्पितं वज्रया सह। प्रिये ! शृणोसि वाक्यानि, सारिका यानि जल्पति ॥१२॥ सुखं दु:खायते नूनं, भविता च विडम्बना । पञ्जरस्था यतश्चैषा, वर्धते विषकन्दली ॥९३।। शुकेन स श्रुतो जल्प, आत्मरक्षां प्रकुर्वता। उच्चै:कारं वचस्तेन, बृहच्छब्देन जल्पितम् ।।९४॥ सारिके! त्वं न जानासि, स्त्रीणां पार्णिकयोर्मति: । स एव हि पिता मां, यो मातुर्मम वल्लभः॥ तत् श्रुत्वा रञ्जितो विप्रो, वज्रा प्रहसिता हृदि । सारिकाया मन: क्रूर, सानुकूलं शुकस्य च ॥१६॥ गता रात्रिर्दिनं जातं, देवशर्मा गतो गृहे । पञ्जरात्सा समाकृष्टा, सारिका पापवज्रया ॥९७॥ रसन्ती विरसं शश्व-त्तारं तरललोचना । मारिता दुःखमारेण, मोटयित्वा कृकाटिकाम् ॥९८॥ भिक्षार्थं तद्गृहे प्राप्त:, साधुसङ्घाटकोऽन्यदा । तयोर्भणितमेकेन, निरीक्ष्य गृहकुर्कुटम् ॥९९।। १ न स्त्रीवत्थुमांसो ऽ प्यनालोचित BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org