________________
अधिकार १६ / श्लोक २९९-३१० / काष्ठश्रेष्ठिकथा-२
३४३
धातवो गलिता: सर्वे, कीकसानि शरीरके । केवलानि विलोक्यन्ते, मुखे विस्फारिताक्षिणी ॥४५।। हस्तपादादिकं सर्वं, संवाहयितुमक्षम: । मुखाद्वागतिकष्टेन, मन्दं मन्दं प्रवर्तते ॥४६॥ भगिनी प्राङ्गणे सुप्ता, 'तत: सङ्गुप्तपादया। महासत्या समागत्य, घण्टिका मम टालिता ॥४७॥ महावेदनया ग्रस्त-श्चार्तध्यानपरायणः । मृत्वा सोऽहं शुको जातो-ऽटव्यां च वटकोटरे ॥४८॥ ततो रोदितुमारब्धा, वक्षस्ताडनपूर्वकम् । हा हता मन्दपुण्याहं, विधिनापहतो प्रिय: ॥४९॥ हाहा विधे! त्वया नून-मेतदसङ्गतं कृतम् । यदि प्रियस्त्वया नीतो, धृताहं कस्य हेतवे ? ॥५०॥ भगिन्या भणिता पापे!, हा हा कपटकारिणि! । यत्त्वया विहितं किञ्चि-तत्ते पततु मस्तके ॥५१॥ शरीरमग्निसात्कृत्वा, वितीर्य च जलाञ्जलिम् । स्वजनान्यजना: सर्वे, स्वस्वस्थानमुपागताः ॥५२॥ दासदाससुतौ जातो, मन्दिरे मम नायकौ । अर्धचन्द्रं गले दत्त्वा, भगिनी मे बहिष्कृता ॥५३।। ये निजास्ते परे जाता:, परे च गृहनायका: । अहो संसारवैरस्यं, नटपेटकसन्निभम् ॥५४|| पक्षौ ममापि सञ्जातौ, सर्वलोकमनोहरौ । उड्डीयोड्डीय गच्छामि, वनारामनगादिषु ॥५५|| अन्यदा लुब्धकैकेन, पातितो निजपाशके । वसन्तसुन्दरे ग्रामे, नीतोऽहं धनकाश्या ॥५६॥ गृहीतो दासपुत्रेण, कारितं वरपञ्जरम् । ददाति भोजनं नित्यं, शालिसिक्थफलादिकम् ।।५७।। स्वगृहं गृहदासं च, दासपुत्रं महासतीम् । विलोक्य मे समुत्पन्नम्, जातिस्मरणमात्मनः ।।५८॥ श्यामवक्त्रा निरानन्दा, कोपकम्पितकन्धरा । मां दृष्ट्वा तत्क्षणादेव, सञ्जातेयं महासती ॥५९|| गतत्राणो निरालम्बो, निरुद्धेन्द्रियपञ्चकः । दिनानि कतिचित्तत्राहं, महामुनिरिव स्थितः ॥६०॥ अन्यदा तु समाकृष्य, पञ्जराद्वीतशङ्कया। मारितोऽहं महाराज!, मोटयित्वा कृकाटिकाम् ॥६॥ भूयोऽपि च शुको जातो, जातौ पक्षौ मनोहरौ । वनेषु वनखण्डेषु, स्वेच्छया विचरनहम् ॥६२॥ जालिकेन स्वजालेन, गृहीत्वा तव ढौकित: । त्वयापि पुत्रवद् दृष्टः, पाठितश्च यथोचितम् ।।६।। काव्यशास्त्रविनोदेन, नीत: काल: कियानपि । अद्य त्वेषा मया दृष्टा, पातकिनी महासती ॥६४॥ तेनाहं मूर्च्छितो राजन्!, भयसम्भ्रान्तमानस: । क्षणं च न मया ज्ञातं, मृतेनेव सुखासुखम् ॥६५॥ नानादोषौघकारिण्य:, सत्यशौचबहिष्कृता: । सुप्तै: स्वप्नेऽपि राजेन्द्र!, न दृष्टा: सुखदा: स्त्रियः॥६६॥ इदं नेत्रपथे वृत्त-मिदं शास्त्रे मया श्रुतम् । अस्ति चम्पापुरी नाम, पुरी शक्रपुरीसमा ॥६७॥ तन्निवासी सतां श्लाघ्यो, धर्मकर्मविचक्षणः । काष्ठश्रेष्ठीति विख्यातः, समस्ति जगतीतले ॥६॥ मन:प्रिया प्रिया तस्य, वजेति कृतनामिका । भुञ्जानस्य तया सार्धं, कामभोगान् मनोहरान् ॥६९॥ वज्रायाश्च सुतो जात:, पूर्णपुण्यनिकेतनम् । समये प्रतिष्ठितं नाम, पुण्यसासे यथार्थकम् ॥७०|| पुण्यसारसमस्तस्य, कुर्कुटो वसति गृहे । पञ्जरस्थे प्रिये तस्य, वसत: शुकसारिके ॥७॥ अन्यदा भणिता तेन, भार्या कोमलया गिरा। प्रिये! देशान्तरे यामि, ह्यर्थोपार्जनहेतवे ॥७२॥ १ ततो गुप्त BC | RJ । तत्ते पतन्मस्तके-BC तत्तवैवापतत्- मु. ॥ ३ क्षणमात्रं न मया-CJ ॥ ४ नाना दोषका BC 11 4 AT UT ATTAT FETT: BJC II
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org