________________
३४२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
एकोऽस्ति मद्गृहे दासो, गृहदासीकुक्षिसम्भव: । सप्तदशाब्ददेशीयो', विकारी कान्तदर्शनः ॥१९॥ शौचधर्मसमारूढा, करस्थताम्रभाजना। जनालिरञ्जनाहेतो-र्बम्भ्रमीति महासती ॥२०॥ रजन्यां विजने जाते, गृहंदाससमन्विता । मद्यं पिबति चाश्नाति, मांसं सा पापकारिणी ॥२१॥
अन्यदाऽजनि पुत्रश्च, दासेनास्यास्ततो द्रुतम् । मामाहूय महासत्या, सङ्केपेण प्रजल्पितम् ॥२२॥ नाथ ! धात्रीसमानेया, कालक्षेपो न सङ्गत: । स्तनं पिबति येनायं, भवदीयस्तनन्धयः ॥२३॥ 'मयापि च समानीता, कृतार्थाभन्महासती। तत: सञ्जाततोषेण, निर्मलामलमौक्तिकैः ।।२४॥ अष्टादशसरो हार-स्तत्कृते कारितो मया । समर्पितो महासत्या, न चासौ प्रतिपद्यते ॥२५॥ हार: पुरुषनामायं, कथं मे लगिता गले । अन्योऽपि पुरुषाह्वो यो-ऽलङ्कारस्तिलकादिकः ॥२६॥
सोऽपि नाथ! न दातव्यो, तेनाऽपि न प्रयोजनम् ।
तदन्य: कोऽपि यो लोके, नरनामा नरोऽपि वा ॥२७॥ नासौ मे लगिता देहे, नाथायं मम निश्चयः । तन्मया चिन्तितं चित्ते, तद्गुणाक्षिप्तचेतसा ॥२८॥ श्रूयन्ते हि महासत्य:, सीताद्या जगतीतले । एषा हि सर्वनारीणां, शीलेन धुरि धार्यते ॥२९॥ मुग्धगृहे समायाता, ब्राह्मणा दक्षिणार्थिन: । पादान्न क्षालयत्येषा, दूरस्थैवावतिष्ठते ॥३०॥ ब्रूते च बाह्मणा यूयं, परं मे नियम: कृत: । धर्मार्थमपि नान्यस्य, नरस्याङ्गं स्पृशाम्यहम् ॥३१॥ श्वश्रूगुणानतिक्रम्य, सद्गुणैरुपरि स्थिता । तैरूचे च चिरं जीव, यथार्था त्वं महासती ॥३२।। एकदा भणितो भ्राता, भगिन्या हितकाम्यया । वत्स! मध्यं न जानासि, गृहचारो न सुन्दरः ॥३३॥ प्रजल्पन्ती मया दृष्टा, नर्मगर्नी प्रिया तव । “सार्धं च गृहदासेन, भ्रूप्रविक्षेपसज्ञया ।।३४॥ न चैतत्सुन्दरं वत्स!, परिणामोप्यसुन्दरः । पुत्रोऽपि दाससञ्जात-स्त्वं पिता नाममात्रतः ॥३५॥ विश्रम्भो हि न कर्तव्य:, शुद्धानामपि योषिताम् । शुद्धा दीपशिखा वत्स!, मलिनीकुरुते गृहम्।३६। ननान्दुर्भाषितं श्रुत्वा, महासती च शङ्किता । मच्चरितं कथितं सर्वं, पत्युश्च पापयानया ॥३७॥ एकान्ते सह दासेन, रजन्यां मन्त्रितं तया । स्वामी ते गोकुले गन्ता, सहायस्त्वं द्वितीयकः ॥३८॥ गच्छन्तं विजनं ज्ञात्वा, ह्यागच्छन्तं तथैव च । रजन्यां वा दिवा वापि, जीविताव्यपरोपये: ।।३९।। प्रतिपन्नमनेनापि, मुग्धोऽसौ गोकुले गतः । लब्ध्वा छिद्रशतं चापि, न तेन व्यपरोपितः ॥४०॥ पुरस्वामी गृहस्वामी, द्रष्टव्य: पितृसन्निभः । प्रच्छन्नं वा प्रकाशं वा, न युक्तो मम मारितुम् ।।४।। रक्ता मत्ताश्च जल्पन्ति, यत्किञ्चन हतस्त्रियः । श्रोतव्यमेव तद्वाक्यं, न कर्तव्यं मनीषिणा ॥४२॥ एवं चिन्तयता तेन, लब्ध्वा छिद्रशतान्यपि । नैव व्यापादितो मुग्धः, क्षेमेण गृहमागत: ॥४३॥ अन्यदा भोजने चूर्णं, प्रक्षिप्तं पापयाऽनया । क्षीयन्ते तेन सर्वाण्य-प्यङ्गोपाङ्गानि मेऽनिशम् ॥४४॥
१°य: सविकारः का BC ॥२ जनचित्तर BC ॥ ३ तेनाऽपि-BJC ॥ ४ कृतार्थाजनिम BJC |
५ समानं गृBIC॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org