________________
अधिकार १६ / श्लोक २९९-३१० / विषयदोषे शुक-सारिका कथा-१
३४१
अथ कामासक्तानामैहिकामुष्मिकानर्थं प्रदर्शयन्नाह-विषयेष्वित्यादि, विषयेषु विषयादिषु प्रसक्तानां गृद्धानां प्रजायन्ते भवन्ति सुदारूणा सुतरां घोरा लोकद्वयविघातिन्य इहलोकपरलोकविघातकारिण्यो नानानर्थपरम्परा अनेकापायसन्ततय: इति श्लोकत्रयोदशकार्थ: ।।३०९-३१०॥
इह पर्यन्तश्लोके विषयप्रसक्तानां लोकद्वयविघातिन्यो नानानर्थपरम्परा: प्रजायन्त इत्युक्तं, यथा च विषयप्रसक्ता नानाऽनर्थपरम्पराभाजो भवन्ति तथा लौकिकलोकोत्तरदृष्टान्तै: शुकसारिकामुखाख्यानै: प्रदर्श्यते, तद्यथा
अटव्यां लुब्धकैकेन, शुकेन सह सारिका । गृहीता विहितं नाम, नीलकण्ठाभिध: शुकः ॥११॥ सारिका हरिमेलेति, एवं गच्छन्ति वासरा: । व्याधेन भणिता भार्या, प्रिये! प्राणप्रिये ! शृणु॥ श्रीमत्तालपुरे राजा, विक्रमादित्यविक्रम:। समस्तसम्पदां धाम, त्यागी भोगी महाबलः ॥३॥ समस्तपण्डितग्राम-ग्रामणी: सिंहविक्रमः । एतत्तस्मै प्रयच्छामि, द्वयं द्विरदगामिनि ! ॥४॥ गत: प्रवेशितो दृष्टो, 'राज्ञाऽरण्यविचारिणा । पुरतः पादयोर्मुक्ते, तेन ते शुकसारिके ।।५।। शुक उवाच-विबुद्धपुण्डरीकाक्ष ! क्षोणीपालशिरोमणे ! । प्रसीद दर्शनं देहि, सिंहविक्रमभूपते! ॥६॥ सारिकोवाच-परस्परविरोधिन्यौ, देहवक्त्रकृतास्पदे। बिभ्रते श्रीसरस्वत्यौ, समं राजन्नमोऽस्तु ते॥७॥ सहस्रद्वितयं दत्त्वा, राज्ञा व्याधो विसर्जित: । सुवर्णपञ्जरस्यान्त-स्तयो: स्थानं निरूपितम् ॥८॥ सभामण्डपमध्यस्थ-स्वर्णपञ्जरमध्यगे। कथाकाव्यविनोदेन, तिष्ठत: शुकसारिके ॥९॥ इतश्च हेमसुन्दर्या, सिंहविक्रमभार्यया । शुकसारिकयो: केल्या, विवाहं कर्तुकाम्यया ॥१०॥ ननान्दा विरतिर्नाम, प्रमोदेन निमन्त्रिता। आयातासौ समारब्धो, विवाहो वरमङ्गलैः ॥११॥ अत्रान्तरे समायातो, महासत्या समन्वित: । परस्परविसंवादे, लिम्बदेवो नृपान्तिकम् ॥१२॥ तयोश्च दर्शनं दृष्ट्वा, मूर्च्छिते शुकसारिके । मूर्छान्ते प्रनितो राज्ञा, शुको मूर्छानिबन्धनम् ।।१३।। शुकेनोक्तं महाराज!, शृणु मूर्छानिबन्धनम् । स्वगृहे स्वशरीरे च, यद्वृत्तं मे तदुच्यते ॥१४॥
वसन्तसुन्दरे ग्रामे, श्रेष्ठी सत्यप्रियोऽभवत् ।
सती च गेहिनी तस्य, सुशीला सत्यवादिनी ॥१५॥ कालेन गच्छता जात:, पुत्रोऽहमनयो: प्रिय:। यथाश्रुतपरिग्राही, मुग्धो मुग्धंकनामकः ॥१६॥ परिणीता तद्वास्तव्या, सुगुप्तवणिज: सुता। महासतीकृताहाना यथार्थीकृतनामका ॥१७॥ एवं व्रजति संसारे, पितरौ गुणशेषताम् । सञ्जातौ तत्पदे जातो, ह्यहं च गृहचिन्तकः ॥१८॥ १ राजार' BJC ॥ २ पुण्यभगिनी-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org