________________
३४०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तत्र कामिनां विपर्यस्तबुद्धीनां श्लोकद्वयमाह-हृत्पूरकेत्यादि, हृत्पूरकाशिनो धत्तूरभक्षकस्य यद्वद्येन प्रकारेण तृणेष्वपि वीरणादिवनस्पत्यवयवविशेषेष्वपि सुवर्णधी: कनकबुद्धिः दुःखात्मकेषु दुःखस्वभावेषु कामेषु शब्दादिषु सुखधी: सुखबुद्धिस्तथा तेन प्रकारेणेति ॥२९९॥
स्वप्ने दृष्टं यद्वत्पुंसो नरस्य क्षणमात्रं स्तोककालं सुखायते सुखं ददाति (अनुभवति), प्रबुद्धस्य विनिद्रस्य न तत्किञ्चिदसत्त्वात्तस्य, एवममुना प्रकारेण विषयजं विषयोद्भवं सुखं शर्मेति श्लोकद्वयार्थः ॥३००॥
अथ कामा: कामिनं त्यजन्तोपि न ते तेन त्यक्तुं शक्यन्त इति दर्शयन्नाहत्यजन्त्यादिकं श्लोका) सुगम, तथा कामानां शब्दादीनां न प्रियो न वल्लभ: कोऽपि कश्चिदपि, कामा: सर्वजनप्रिया:; सकललोकवल्लभा इति श्लोकार्थः ॥३०१।।
अथ कामासक्तानां धर्मं प्रत्यनादरतां दर्शयन्नाह-शब्दादीत्यादिश्लोक: सुगमः ॥३०२॥
अथ कामिनामपायान् दर्शयन्नाह-गर्तेत्यादि, गर्ताशूकरसङ्काशा गर्ताशूकरो भुण्डस्तेन तुल्या विषयाशुचिकर्दमे विषया एवाशुचिंकर्दमों विष्टाविलपङ्कस्तत्र ये रमन्ते क्रीडन्ति, ते क्रीडन्ति नरके प्रतीते नरकीटका नरा अपि कृम्यादिकीटतुल्या इत्यर्थः ॥३०३।। अथ विषयासक्तानामेवान्धबधिरतुल्यतामाह-विषयेष्वित्यादिश्लोक: कण्ठ्य: ॥३०४॥
अथ विषयाणां विषतुल्यतामाह-आदावित्यादि, आदौ मूले हृद्यरसास्वादा मधुररसा इत्यर्थः, पर्यन्तेतत्सेवनान्ते परलोके वापरितापकारिण: परिणामदारुणा इत्यर्थः, विषया: शब्दादयो विषवत्कालकूटमिव , त्याज्या: पुंसा नरेण स्वहितमात्मकल्याणमिच्छताभिलषतेति श्लोकार्थः ॥३०५॥
अथ विषादपि विषयाणां दुष्टत्वमाह-एकवारमिति श्लोक: स्पष्टः ॥३०६।। अथ कामानामेव दुःखदायित्वमस्थिरत्वं च दर्शयन्नाह-प्राप्ता अपीत्यादिश्लोक: सुगमः ॥३०७।। अथ विषया निषेव्यमाणा अपि वर्धन्त एवेति वक्तुमाह-यथा यथेत्यादिश्लोको व्यक्त एवेति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org