________________
३३९
विषयाऽधिकारः १६
उक्तो विनयाधिकार: विनयवद्भिश्च विषया दूरत: परित्याज्या इत्यतस्तदनन्तरं विषयाधिकारमाह
हृत्पूरकाशिनो यद्व-तृणेष्वपि सुवर्णधीः । दुःखात्मकेषु कामेषु, कामिनां सुखवासना ॥२९९॥ स्वप्ने दृष्टं यथा पुंसः, क्षणमात्रं सुखायते । । प्रबुद्धस्य न तत्किञ्चि-देवं विषयजं सुखम् ॥३००॥ त्यजन्ति कामिनं कामा-स्त्यज्यन्ते ते न कामिभिः । कामानां न प्रियः कोऽपि, कामां: सर्वजनप्रियाः ॥३०१॥ शब्दादिविषयासक्ता, धर्ममार्गपराङ्मुखाः । अजरामरवन्मूढा-श्चेष्टन्ते नष्टचेतनाः ॥३०२॥ गर्ताशूकरसङ्काशा, विषयाशुचिकर्दमे । ये रमन्ते रमन्ते ते, नरके जरकीटकाः ॥३०३।। विषयेषु विषीदन्तौ, न पश्यन्ति हिताहितम् । शृण्वन्ति न हितं वाक्य-मन्धबधिरसन्निभाः ॥३०४॥ आदौ हृद्यरसास्वादाः, पर्यन्ते परितापिनः । विषया विषवत्त्याज्याः, पुंसा स्वहितमिच्छता ॥३०५॥ एकवारं विषं हन्ति, भुक्तमेव न चिन्तितम् । विषयाश्च चिन्तनादेव, बहुधा च विनाशकाः ॥३०६॥ प्राप्ता अपि नरैः कामा, दुःखं ददति केवलम् । क्षणं दृष्टा: क्षणं नष्टा, गन्धर्वनगरोपमाः ॥३०७॥ यथा यथा निषेव्यन्ते, विषया मोहमोहितैः । तथा तथा प्रवर्धन्ते, यथा चाहर्महर्षयः ॥३०८॥ उपभोगोपायपरो, वाञ्छति यः शमयितुं विषयतृष्णाम् । इच्छत्याक्रमितुमसौ, पूर्वाऽपराह्ने निजच्छायाम् ॥३०९।। विषयेषु प्रसक्तानां, प्रजायन्ते सुदारुणाः। लोकद्वयविघातिन्यो, नानानर्थपरम्पराः ॥३१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org