________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
"
एवं च कुर्वता तेन, रञ्जिता: सर्वसाधवः । दिनत्रये गते चैवं, ततः सूरेर्निवेदितम् ॥६२॥ यथैषः निम्बकः साधु-र्जातः सम्प्रति नम्रकः । सुशीलः सुविनीतश्च, धार्मिको धार्मिकप्रियः ||६३ || गुरुभिर्भाषितं तर्हि, तिष्ठत्वत्रैव शिक्षया । सम्यक्पालनीयश्च, शिक्षणीयो विशेषतः ||६४|| ततोऽसौ निवसंस्तत्र, गुर्वाराधनतत्परः । स्वकैरेव गुणग्रामै:, सञ्जातः साधुसंमतः ॥ ६५ ॥ विनीतत्वेन सत्कीर्ति-स - स्तस्य दूरे विजृम्भिता । आम्रक इति नामापि सम्प्रवृत्तं चिरन्तनम् ॥६६॥ इत्थं वन्द्यश्च पूज्यश्च, श्लाघनीयः सतां मतः । तत्रास्ते रञ्जिताशेष - साधुश्रावकसंहतिः ॥६७॥ अन्यदा तेन वृद्धेन, विज्ञप्तो मुनिपुङ्गवः । यथाऽऽवयोः समग्रेषु, गच्छेष्वत्र महापुरि ॥ ६८ ॥ अप्रसिद्धिर्दृढं जाता, दुर्विनीतत्वसम्भवा । अयमप्याम्रकोऽगच्छ-त्साम्प्रतं सुविनीतताम् ॥६९॥ तदहं तेषु गच्छेषु, व्रजामि सकलेष्वपि । आराध्यैरभ्यनुज्ञातः, प्रमार्थं स्वकलङ्कताम् ॥७०॥ ततश्चैवं विधेहीति, सूरिणा जल्पिते सति । स वृद्धः सर्वगच्छेषु, ययावाम्रकसंयुतः ॥७१॥ सद्विनयविवेकादि-सद्गुणग्रामसम्पदा । सर्वेऽपि रञ्जितास्ताभ्यां गच्छा यतिशताकुलाः ॥ ७२ ॥ [प्र] लब्धः साधुवादश्च महत्त्वं पूज्यतां जने । सर्वत्र धार्मिकत्वेन, वल्लभत्वमलभ्यत ॥७३॥ इत्थं कलङ्कमुत्तार्य, स्वस्योच्चैर्दुर्नयाश्रयम् । आयातौ पितृपुत्रौ तौ, सानन्दौ निजके गणे ||७४ || तत्र तत्र स्थितौ सन्तौ, सर्वदा साधुसंमतौ । साधुसम्मतसम्पूर्ण सामाचारीपरायणौ ॥७५॥ भावसारं चिरं कालं कृत्वा संयममुत्तमम् । मृत्वाऽऽगमविधानेन, देवलोकमुपागतौ ॥७६॥ इत्थमाम्रकनामासौ, साधुर्दुर्विनयादिह । व्याहृतः सर्वगच्छेषु, निम्बक इति साधुभिः ॥७७॥ पुनः सोऽपि च सर्वत्र, विनयादिगुणसम्पदा । प्रापांम्रक इति ख्यातिं लोके पूजासमन्विताम् ॥७८॥ तदिह सकलधर्मोर्वीरुहस्यादिमूलं, दिविजमनुजभाजां सम्पदामेकहेतुः ।
सह विशदसुकीर्त्या कारणं मोक्षलक्ष्म्याः, प्रवरविनयधर्म: शिक्ष्यतां चर्यतां च ॥७९॥
३३८
Jain Education International
इति विनयाधिकारः
For Private & Personal Use Only
www.jainelibrary.org