________________
अधिकार १५ / श्लोक २८५-२९८ / आन-लिम्बककथा
३३७
निम्बकेनोदितं तात !, किमर्थं रुद्यते त्वया ।
स्थविर: प्राह रे पाप!, रोदिमि तव चेष्टितम् ॥३५॥ दुर्विनीत ! दुराचार !, दुर्बुद्धे ! दुष्टभाषक ! । भवद्दोषेण कुत्रापि, पश्य स्थानं न लभ्यते ॥३६॥ किं करोमि ? क्व गच्छामि ?, ज्ञानविज्ञानवर्जित: । कमाश्रयामिरे मूढ !, तव दोषविदूषितः॥३७॥ त्वं पुनर्वर्धसे नित्यं, विषपूर्ण इवोरग: । समं दुर्नयशतैोरै-र्जनकोद्वेगकारकः ॥३८॥ तदिदमेकमेवात्र, रोदने मम कारणम् । न चान्यत्किञ्चिदेवास्ति, बुद्ध्यस्व यदि बुद्ध्यसे ॥३९॥ श्रुत्वेदं तस्य निम्बस्य, तत्प्रतिचित्तमागतम् । यथैष सुन्दरं ब्रूते, परिणामसुखावहम् ॥४०॥ अहो अहं महापापः, पितु: सन्तापकारकः । येन मे सर्वगच्छेषु, साधव: प्रविराधिता: ॥४१॥ इत्यादि बहुधात्मानं, चिरं चित्ते विनिन्द्य स: । पितरं प्राञ्जलि: प्राह, गाढं संविग्नमानसः ॥४२॥ तात ! त्वं मा कृथाः खेदं, मा मा रोदीश्च मा रुष । नाद्यप्रभृति कुत्रापि, दुर्विनयं करोम्यहम्॥४३॥ तदुत्तिष्ठ वयं यामो, गच्छे श्रीमति मौलिके । गुणाढ्यसाधुसम्पूर्णे, दीक्षासूरेश्च सन्निधौ ॥४४॥ स्थविर: प्राह भो वत्स!, साधु साधु त्वयोदितम् । परं तत्र प्रवेशोऽपि, लप्स्यामहे वयं न हि॥४५॥ यतस्त्वया समग्रोऽपि, गच्छ उद्वेजितो दृढम् । स कथं तव नामापि, मुग्धबुद्धे ! सहिष्यते ॥४६॥ तद्गच्छवासिन: सर्वे, त्वद्गन्धादपि बिभ्यति । को वा दुर्जनसंसर्गा-धीरोऽप्युद्वजते न हि ॥४७॥ निम्बकेनोदितं तात! यथैव त्वं प्रभाषसे । तथैव सर्वमेवैतत्, कार्यं नैवात्र संशयः ॥४८।। तथापि गम्यतां तत्र, वारामेकां प्रविश्यताम् । तत्रत्यसर्वसाधूनां, दूरं 'वारयतामपि ॥४९।। ततोऽहं] यत्करिष्यामि, गच्छवासव्यवस्थितः । तदेतत्तात! नि:शेषं, त्वमप्यालोकयिष्यसि ॥५०॥ एवं विधीयतां वत्से-त्युक्ते वृद्धेन सत्वरम् । समुत्थाय तत: स्थाना-गतौ द्वावपि तत्र तौ ॥५१॥ तावायान्तौ समालोक्य, भीता: सर्वेऽपि साधवः । अहो अयं समेत्यत्र, भूयोऽपि विघ्नकारकः ॥५२॥ इत्यादि ध्यायतां चित्ते, श्रमणानां क्षणान्तरम् । झटित्येव समायातौ, गुरूणामन्तिके तकौ ॥५३॥ कृत्वा सर्वां यथाज्ञातां, प्रतिपत्तिं यथोचिताम् । साधूनां च गुरूणां च, सद्भक्त्या नम्रगात्रकौ ॥५४॥ साधुदत्तासने तस्मि-त्रुपविष्टौ गुर्वनुज्ञया । सम्भाषितौ यथौचित्यं, गुरुभि: कोमलोदितैः ॥५५॥ ततो विज्ञपयामास, वृद्ध: सूरि कृतादरः । यथातथैकवारं मां, प्रवेशस्व गणे विभो! ॥५६॥ यद्ययं मामक: पुत्र:, कथञ्चिनिम्बकाभिध: । विधत्ते दुर्नयं भूय-स्ततो निष्कास्यतां खलु ॥५७।। गुरुराह यथा भद्र!, तावत्तिष्ठ दिनत्रयम् । प्राघूर्णकोऽत्र पश्चाच्च, यद्युक्तं तत्करिष्यते ॥५८॥ अथ तौ गुर्वनुज्ञातौ, स्थितौ तत्र वरे गणे । साधुकृत्यानि सर्वाणि, प्रकुर्वाणौ प्रयत्नत: ॥५९।। सर्वेषामपि साधूनां, गुरूणां च विशेषत: । विनयं कर्तुमारब्धो, निम्बकोऽपि यथाफलम् ॥६०॥ सामाचारी च सम्पूर्णां, सुसाधुजनसेविताम् । यथाकालं यथाशक्त्या, प्रवृत्त: कर्तुमुच्चकैः ॥६१|| १ वारयतामिति-BIC ॥ २ यथा यथैक BJC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org