________________
३३६
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरलकरण्डके
तदिदं पूज्यपादाना-मस्माभि: कथितं स्फुटम् । युक्तायुक्तं विजानन्ति, पूज्या एवात्र वस्तुनि ॥१२॥ गुरूणापि स आकार्य, पित्रां सार्धं तु तत्क्षणम् । जल्पित: कोमलालापैः, संवेगरसदायकैः ॥१३॥ यथा भो भो महाभाग ! त्वं धर्मार्थं समुद्यत: । धर्मार्थिना च सन्त्याज्या, दूरतोऽखिलदुर्नया: ॥१४॥ भाव्यं च सुविनीतेन, वाञ्छता हितमात्मनः । वर्जनीयं च सर्वत्र, पराप्रीतिकमुच्चकैः ॥१५॥ तन्मुक्त्वा दुर्विनीतत्वं, विनय: शिक्ष्यतामहो । स्वर्गापवर्गसंसर्ग-सौख्यसम्पत्तिकारणम् ॥१६॥ श्रुतज्ञानं सुविज्ञानं, यशोराज्यादिसम्पदः । जायते चेष्टसंसिद्धि-विनयादेव देहिनाम् ॥१७॥ विनय एव विस्तारि, मूलं सद्धर्मशाखिन: । सर्वदा साधुवर्गस्य, विनयो वरभूषणम् ॥१८॥
कुलरूपवचनयौवन-धनमित्रैश्वर्यसम्पदपि पुंसाम् । विनयप्रशमविहीना, न शोभते निर्जलेव नदी ॥१९॥ न तथा सुमहा(रपि, वस्त्राभरणैरलङ्कृतो भाति । श्रुतशीलमूलनिकषो, विनीतविनयो यथा भाति ॥२०॥ विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरति-विरतिफलं चाश्रवनिरोधः ॥२१॥ संवरफलं तपोबल-मथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः, क्रियानिवृतेरयोगित्वम् ॥२२॥ योगनिरोधाद्भवसन्ततिक्षयः, सन्ततिक्षयान्मोक्षः। तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः ॥२३॥
[प्रशमरति प्रकरणे का. ६७, ६८, ७२, ७३, ७४] तदहो यदि कल्याणं, सदात्मन: समीहसे । सुशील: सुविनीतश्च, नम्र: प्रियंवदो भव ॥२४॥ इत्यादिपेशलैर्वाक्यै-राम्रको गुरुणा भृशम् । सम्बोधित: समं पित्रा, साधूनामग्रत: स्फुटम् ॥२५।। इत्यमृतरसस्यन्द-नाविन्योऽपि गुरोर्गिरः । तीव्रकटुरसस्वादा-स्तेनामन्यन्त चेतसि ॥२६॥ ततश्चाकाम एवासौ, प्रतिपद्य गुरोर्वच: । उत्थाय च तत: स्थाना-त्तथैव समचेष्टत ॥२७॥ पूर्वक्रमेण भूयोऽपि, साधुभि: कथितं गुरो: । तेनापि सामभेदाभ्यां, प्रज्ञापितो मुहर्मुहुः ॥२८॥ एवं प्रज्ञाप्यमानोऽपि, यावन्नोति वक्रताम् । तावन्निष्कासितो गच्छात्, समं पित्रा स मूढधीः ।।२९।। ततो जनकपुत्रौ तौ, तस्यामेव महापुरि । गतौ गच्छान्तरं तत्र, विधिना प्रविवेशतुः ॥३०॥ तत्रापि विनयं नैव, गुरोरपि करोत्यसौ । प्रत्युत साधुकृत्येषु, विघ्नान्नित्यं निरङ्कुश: ॥३१॥ तत: पूर्वक्रमेणैव, निष्कासितश्च सूरिभिः । समं पित्रा गतोऽन्यत्र, ततो निष्कासितोऽपि हि ॥३२॥ एवं तत्रैव तौ गुपुर्यां, गच्छानां शतपञ्चकम् । हिण्डितौ न च कुत्रापि, प्राप्तवन्तौ समाश्रयम्।३३। इत्थं यदा न लेभाते, स्थानं कुत्रापि तौ गणे । ततो रोदितुमारब्धो, बृहच्छब्देन तत्पिता ॥३४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org