________________
अधिकार १५ / श्लोक २८५-२९८ / कूलवालक-आम्रलिम्बकथानके
३३५
इत्याकर्ण्य राज्ञा तत्क्षणमेव मागधिकां गणिकां समाहूय शिक्षयित्वा च प्रेषिता कूलवालकसमीपे। ततस्तया श्राविकाया वेषं कृत्वावन्दित: कूलवालकः, पर्युपासितश्च क्षणं, भणितश्च यथा भगवन् मम सार्थे समागत्य भक्तपानादिनानुग्रह: क्रियतां, ततोऽसौ क्रमेण गतस्तत्र प्रदेशे, तयापि च चूर्णमिश्रमोदकैः प्रतिलम्भितो गत: स्वस्थानं, कृतं च तैर्मोदकैः पारणकं, जातं च पायुक्षालकं, अत्यन्तमधरीभूतं च तच्छरीरकं, तया च सुश्राविकयेव सादरं सर्वप्रकारैः प्रतिजागरित: कालेन च प्रगुणतां ययौ, सस्नेहं प्रार्थितश्च तया यथा पश्चाद्धर्मं भगवन् ! कुर्याः, मयैव सार्धमधुना भोगान् भुक्ष्वेति, तथैव तेनापि प्रतिपन्नं तद्वचः, कृतश्च कालेन तया स कूलवालक आत्मवशवर्ती, नीतश्च कोणिकराजसमीपे, उक्तश्च कोणिकेन यथा भो भट्टारक! कथमेतस्या नगर्या भङ्गो भविष्यतीति, तेन निगदितं नगरी निरीक्ष्य कथयामि, तत: प्रविष्टस्तदभ्यन्तरे, निरूपिता च सर्वत:, दृष्टं च अतीवरमणीयं मुनिसुव्रतजिनस्तूपं, ज्ञातं च यथास्य प्रभावेण नगरी न भज्यत इति ततश्च कथितं तेन लोकानां यथा भो भो नागरका: ! स्तूपस्यास्य दोषेण नगरीरोधकोऽजनि, स्तूपभङ्गे रोधकभङ्गो भविष्यति, प्रत्ययश्चात्रास्योत्कीलनाकाल एव परचक्रं दूरं गमिष्यति, इत्युक्त्वा गत: कूलवालक: कोणिकसमीपे, कथितस्तस्मै सर्वोऽपि स्तूपभञ्जन्मदिव्यतिकर: नगरीलोकैश्च स्तूपो भक्तुमारब्धः, कोणिकोऽपि सस्कन्धावारो दूर दूरतरं गतः, लोकेनापि जातप्रत्ययेन समन्तादुत्कीलित: स्तूपः, कोणिकेनापि समागत्य गृहीता नगरी, भग्ना च, कूलवालकोऽपि गुरुप्रत्यनीको भ्रष्टचारित्रो दुष्कर्मकारी दुर्गतिं गतवानिति।
अथाम्रलिम्बकथानकं, तच्चेदंअस्त्यत्रैव सुविख्यातो-ऽवन्तीजनपदो भुवि । धनधान्यादिसम्पन्नो, रम्यग्रामादिसङ्कुल: ॥१॥ तस्मिन्नुज्जयिनी नाम, प्रवरास्ति महापुरी। जैनेन्द्रचैत्यसन्दोहै:, सर्वतोऽपि विराजिता ॥२॥ शतानि पञ्च तत्रासन्, गच्छानां सद्गुणश्रियाम् । भिन्नभिन्नाश्रयस्थानां, साधुसन्दोहशालिनाम् ॥३॥ तत्र गच्छे किलैकस्मिन्, गीतार्थगुर्वधिष्ठिते । सहाऽऽम्राख्यसुतेनैको, जग्राह स्थविरो व्रतम् ॥४॥ अथ प्रवर्धमानोऽसा-वाम्रक: प्रतिवासरम् । विनयं ग्राह्यमाणोऽपि, सर्वकल्याणकारणम् ॥५॥ जातस्तथाप्ययोग्यत्वाद्, दुर्विनीतशिरोमणि: । एहीत्युक्तो व्रजत्येव, व्रजेत्युक्तो समेति स: ॥६॥
चैत्यवन्दनसद्धयान-कालप्रग्रहणादिषु । विघ्नं सुसाधुकृत्येषु, व्यर्थमेव चकार सः ॥७॥ ततस्तं तादृशं दृष्ट्वा, दुर्विनीतं दुराशयम् । निर्विण्णा: साधव: सर्वे, गुर्वन्तिकमुपागता: ॥८॥ विहितानतय: प्रोचु-र्भगवन्नयमाम्रकः । युष्मच्छिष्य: सदाकालं, कुरुते दुर्नयानलम् ।।९।। इयन्तं कालमस्माभिः, सोढा एतस्य दुर्नया: । सम्प्रत्युद्वेजिता दूरं, न वयं सोदमीश्वराः ॥१०॥ अयं हि शास्त्रपाठादि-साधुकार्येषु सर्वदा । कुरुते विघ्नसङ्घातं, वार्यमाणोऽपि साधुभिः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org