________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरलकरण्डके
अथ गुर्वादिषु विनयकारिणां यद्भवति तदर्शयन् श्लोकमेकमाह-ज्ञानेत्यादि स्पष्टमेवेदम् ॥२९६।। अथ विनयाविनययो: फलमाह--लिम्बतां दुर्विनीतत्वादिति श्लोक: सुगमः ॥२९७।।
अथ सर्वोत्तमं विनयफलमाविष्कुर्वन् वृत्तमाह
वरविनयेत्यादि अस्य व्याख्या- वरविनय एव गुणस्तेनाऽऽप्ता प्राप्ताअशेषलोकविहिता प्रशंसा येन स तथा, सफलितं सफलीकृतं निजं जन्म येन स तथा, भूरि प्रभूतं धाम तेजो यस्य स तथा, महान् प्रशस्य आत्मा यस्य स तथा, कतिपयदिनमध्ये कियद्दिवसाभ्यन्तरे स्तोककालेनेत्यर्थः, क्षीणनि:शेषकर्मा क्षीणानि प्रलयं गतानि नि:शेषाणि समस्तानि कर्माणि ज्ञानावरणीयादीनि यस्य स तथा, सकलजनविनीत: समस्तविनयाऽहीलक: विनयकारी शाश्वतं शश्वद्भवं स्थानं पदमेति गच्छति, निर्वाणनगरमुपगच्छतीत्यर्थः, इति श्लोकचतुर्दशसमासार्थ: ।।२९८।।
। कूलवालककथानकं सङ्केपादिदंएकस्याचार्यस्यात्यन्तदुर्विनीतो विनेय:, तं चाचार्यो विनयं ग्राहयन् बहुधा शिक्षयति कदाचिन्मधुरैर्वाक्यै: कदाचित्किञ्चिन्निष्ठरैरिति, सचाचार्यं प्रति बृहदनुशयं वहति । अन्यदा सूरिस्तेनैव सार्धं केनापि प्रयोजनेन कञ्चित्पर्वतमारूढः, सिद्धप्रयोजनेन पश्चादागच्छता [तेन शिष्येण] मामयं निरपराधमेव मुहुर्मुहुनिर्भर्त्सयत्यतो मारयाम्येनं स्वगुरुमिति कल्पयता शिलैका समुत्पाट्य सूरे: पृष्टतो मुक्ता, सूरिणापि खाट्कारं कुर्वन्ती महावेगेनागच्छन्ती सहसैव सा लक्षिता, स्थितश्च द्रुतमेव मार्ग मुक्त्वैकत्र पार्श्वे सूरिः, जगाम भूतले शिला, ततश्च सूरिणातिरुष्टेन स दुर्विनीतो विनेय: शप्तो यथा रे दुरात्मन् ! दुर्विनीत ! दुष्टकर्मकारिन् ! स्वगुरुघातक ! स्त्रीभ्यस्ते विनाशो भवत्विति । तेनोक्तं मया तत्र स्थातव्यं यत्र स्त्रीणां सम्भवोऽपि नास्तीत्युक्त्वा गत: शून्यारण्य, तत्र चैकत्र नदीकूले कायोत्सर्गस्थित: प्रतिदिवसमातापनां प्रकुर्वन्नास्ते, तत्रायातसार्थादे: सकाशाल्लब्धभक्तपानादिना च पारयति इतश्च वैशालीनगरी भतुमशक्नुवन् कोणिकनरेन्द्रो नितरां खेदमावहत्नेवं व्यचिन्तयत्, कथं नामैतस्या नगर्या मया भङ्गः कर्तव्य इति । अत्रान्तरे सहसैव गगनमण्डले वचनमिदमुल्ललास
जया समणे कूलवालए, मागहियं गणियं रमिस्सइ । राया असोगचंदए, वेसाली नगरी गहिस्सइ ॥१॥
[संवेगरंगसाला १२८३]
१ प्रशंसा विहिता येन-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org