SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अधिकार १५ / श्लोक २८५-२९८ / विनयमहिमा ३३३ 'वरविनयगुणौघप्राप्तलोकप्रशंस:, सफलितनिजजन्मा भूरिधामा महात्मा। कतिपयदिनमध्ये क्षीणनि:शेषकर्मा, सकलजनविनीत: शाश्वतं स्थानमेति ॥२९८॥ इति श्लोकाश्चतुर्दश, यत्र तत्र प्रयातोऽपि यस्मिंस्तस्मिन् स्थाने गतोऽपि, दुर्विनीतो दुर्नयकारी न शोभते न शोभामर्हति, न चापि सेव्यतामेति आश्रयणीयतां न गच्छतीत्यर्थः, निर्जलेव सलिलविकलेव यथा येन प्रकारेण नदी निम्नगेति प्रथमश्लोकार्थ: ॥२८५॥ अथ विनयाराधिता: सन्त: सन्तो यादृशा भवन्ति तद्दर्शयन्नाह-किं किं न प्रयच्छन्तीत्यादिश्लोक: सुगम: ॥२८६|| पुत्रोऽपि दुर्विनीत: पितुरुद्वेगकारणमिति दर्शयन्नाह अङ्गजोऽपीत्यादि, तत्राङ्गजो देहोद्भव इति शेष सुगममिति ।।२८७॥ अथ नमनशीलस्य धनुर्दृष्टान्तेन गुणमाह-कोदण्डस्येति श्लोक: सुगमः ॥२८८॥ अथ पितापि दुर्विनीतस्य यत्करोति तद्दर्शयन्नाह-दुर्विनीतं परित्यज्येति श्लोकः स्पष्टः ॥२८९॥ अथ दुर्विनीतस्याऽनर्थप्राप्तिं सदृष्टान्तामाचष्टे, हन्तेत्यादि, तत्र हन्ता घातयिता जन्मद्वयस्यापि ऐहिकामुष्मिकभवद्वितयस्यापि दुर्विनीतो दुराशयो दुष्टचित्तो हितेष्वपि हितकारिष्वपि गुर्वादिष्विति गम्यते, अहित: शत्रुतुल्य: पाप: पापकारी कूलवालो यथा मुनिरिति ॥२९०॥ अथेह यथा दुर्विनीतस्य चेष्टितजल्पितादि न शोभते नेत्रवक्त्रादिदृष्टान्तैस्तथा दर्शयन् श्लोकत्रयमाह-नेत्रहीनं यथा वक्त्रमित्यादि सुगमं चैतत् ॥२९१-२९३॥ अथ मानसिकादिभेदेन विनयत्रैविध्यं तत्स्वरूपं च दर्शयन् श्लोकद्वयमाह-गुर्वादिषु शुभं चित्तमित्यादि सुखावबोधमेतदिति ॥२९८-२९५।।। १ वरविनयगुणावाप्तशेषलोक B॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy