________________
३३२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
विनयाधिकारः १५
उक्तः शिष्टसङ्गाधिकारः, शिष्टसङ्गादेव विनीतो जायते जन्तुरित्यतस्तदनन्तरं विनयाधिकारमाह
यत्र तत्र प्रयातोपि, दुर्विनीतो न शोभते । न चापि सेव्यतामेति, निर्जलेव यथा नदी ॥२८५॥ किं किं यन्न प्रयच्छन्ति, किं किं यन्न प्रकुर्वते । स्वबन्धुमिव पश्यन्ति, विनयाराधिता नराः ॥२८६॥ अङ्गजोऽपि हि दुष्टात्मा, व्रणः सन्तापकारणम् । पुत्रोऽपि दुर्विनीतात्मा, पितुर्निर्वेदकारणम् ॥२८७।। कोदण्डस्यैव नम्रस्य, कोटिमारोहते गुण: । ततोऽपि च टणत्कारो, बम्भ्रमीति महीतले ॥२८८॥ दुर्विनीतं परित्यज्य, स्वपुत्रं मेदिनीपतिः । अन्यस्यापि ददात्येव, राज्यं विनयरञ्जितः ॥२८९॥ हन्ता जन्मद्वयस्यापि, दुर्विनीतो दुराशयः । हितेष्वप्यहित: पापः, कूलवालो यथा मुनिः ॥२९०।। नेत्रहीनं यथा वक्त्रं, दानहीनं यथा धनम् । चन्द्रहीनं यथाकाशं, पद्महीनं यथा सरः ।।२९१॥ निर्नायकं यथा सैन्यं, तपोहीनश्च संयमः । नि:संस्कारं यथा वाक्यं, निरपत्यं यथा गृहम् ॥२९२॥ तथैव दुर्विनीतस्य, चेष्टितं जल्पितं स्थितम् । पाण्डित्यं च क्रियाकाण्डं, सर्वथैव न शोभते ॥२९३॥ गुर्वादिषु शुभं चित्तं, विनयो मानसो मतः । हितं मितं प्रियं वाक्यं, विनयस्तेषु वाचिकः ॥२९४॥ . कायिकश्च यथाशक्ति, तत्कार्याणां प्रसाधकः। - सर्वथाऽऽशातनात्यागः, सर्वदा नीचवर्तिता ॥२९५॥ ज्ञानदर्शनचारित्र-रत्नत्रितयभाजनम् । विनयादेव जायन्ते, गुरूणां योग्यजन्तवः ॥२९६।। लिम्बतां दुर्विनीतत्वात्, पश्चाच्चागमदाम्रताम् । यथैष क्षुल्लको गच्छे, पित्रा सार्धं कृतव्रतः ॥२९७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org