SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अधिकार १४ / श्लोक २८३-२८४ / केशि-प्रदेशिकथा ३३१ ततो गतो निजे गेहे, राजा रञ्जितमानस: । सूरयोऽप्यन्यदान्यत्र, विहता नगरान्तरे ॥८२॥ भूपेनापि यथाग्राहं, धर्म: सुश्रावकोचितः । निष्कलङ्कश्चिरं कालं, शुद्धभावेन पालित: ।।८३।। महापरिग्रहारम्भाः, सर्वेऽपि शिथिलीकृता: । स्त्रीसङ्गश्च परित्यक्तो, विशुद्धं धर्ममिच्छता ॥८४॥ ततो विचिन्तितं सूर्य-कान्तयान्यत्र सक्तया । यथायं यत आरभ्य, राजा जात उपासकः ॥८५।। तत: प्रभृति मामेष, सर्वथा त्यक्तवानिति । तद्विषादिप्रयोगेण,, विनाश्यैनं नराधिपम् ॥८६।। पुत्रं च सूर्यकान्ताख्यं, राज्ये संस्थापयाम्यहम् । ततो भुञ्जे यथाकाम, कामभोगानिरन्तरम् ।।८७॥ निर्भया च निराशङ्का, स्ववशा स्वेच्छचारिणी । ततोऽन्यदा तया क्षिप्तं, भक्तमध्ये महाविषम् ॥८८।। उपोषितनरेन्द्राय, दत्तं पौषधपारणे । ततो राज्ञः समुत्पन्ना, प्राणप्रहाणकारिणी ।।८९।। दु:सहा सर्वतो देहे, पित्तज्वरोग्रवेदना । राज्ञा ज्ञातं तकत्सर्वं, यत्कृतं सूर्यकान्तया ॥९॥ मन्ये विषविकारोऽयं, तेनाधरं वपुर्मम । तत: संवेगमापन्न-स्तस्यामद्विष्टमानस: ॥११॥ अनुव्रतानि पञ्चापि, समुच्चार्य यथाविधि । आलोचितप्रतिक्रान्तो, नमस्कारपरायण: ॥१२॥ मृत्वा 'समाधिना प्राप्त:, कल्पे सौधर्मनामनि । विमाने सौरिकाभेच, सूर्यनाभाभिध: सुरः।। चतुष्पल्योपमायुष्कः, समुत्पन्नो महर्द्धिकः । भुक्त्वा तत्र महाभोगां-स्ततश्च्युत्वा स्थितिक्षयात् ॥९४।। क्षेत्रे महाविदेहाख्ये, कृत्वा संयममुत्तमम् । प्यास्यति नि:शेषकर्मांश-विनिर्मुक्त: शिवालयम्।। इति शिष्टसङ्गाधिकारः १ समाधिसंप्राप्त: BJC२BI यास्यत्यशेष मुः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy