________________
३३०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके स्थगयित्वा च तवारं, निश्छिद्रं 'जतुना कृतम् । मृतश्चौरो न चालोकि, तद्विनिर्गमरन्ध्रकम् ॥५४॥ कुम्भीमध्येऽपि यत्नेन, वीक्षमाणैर्निरन्तरम् । जीव: कुत्रापि नो दृष्टो, दृष्टश्च कृमिपुञ्जकः ॥५५॥ तथान्योऽपि मया चौरः, सूक्ष्मखण्डानि कारित: । न तत्र वीक्षितो जीव:, सञ्छिन्नेऽपि तिलं तिलम्॥ सूरिणाभाणि भो कश्चि-त्कुम्भीमध्यगतो नरः । नीरन्ध्र पिहिते द्वारे, शङ्खमादाय वादयेत् ।।५७॥ स शङ्खनि:स्वनो भद्र!, निष्क्रामति कुतो बहिः । वह्निना ध्मायमाने वा, लोहपिण्डेग्निभासुरे ॥५८॥ सर्वात्मना कुतस्तत्र, प्रविवेश हुताशन: । द्वितीयस्तेनके चायं, दृष्टान्तो जनविश्रुत: ॥५९॥ यथा हि मानव: कोऽपि, गृहीत्वाऽरणिदारुकम् । सर्वत: पाटयन्नुच्चै-रग्निं तत्र न पश्यति ॥६०॥ अन्यश्चोत्थापयामास, वह्नि तत्रापि दारुके । यदीदृक्षस्वरूपाणि, मूर्तवस्तून्यपीह भोः ॥६१॥ तदमूर्तपदार्थानां, को विशेषोऽप्रदर्शने । राजाह पुनरप्येवं, मयैक: स्तेन एकदा ॥२॥ जीवन्नेव तुलारूढो, जनाध्यक्षं प्रतोलित: । उच्छ्वासस्य निरोधेन, मारयित्वा तथैव सः ॥६३॥ तोलितस्तत्क्षणं याव-त्तावानेव न चोनकः । सूरिङ्घते इहैकेन, गोपालेन दृतिर्दृढम् ॥६४|| तोलितो वातसम्पूर्णो, रिक्तोऽपि च तथैव स: । तावानेव हि सञ्जातो, न च न्यूनो न चाधिकः ॥६५॥ तदहो यदि मूर्तेऽपि, तौल्यमाश्रित्य नान्तरम् । दृष्टं कथममूर्तेषु । भावेषु तत्प्रदृश्यतां ॥६६॥ तस्मात्सर्वांगिवर्गस्य, कथंचिद्देहत: पृथक् । स्वसंवेदनसंसिद्धो, जीव: प्रत्यक्ष एव हि ॥६७।। तथा-चैतन्यानुगतानेक-चलनस्पन्दनादिभिः । चेष्टाभिर्लक्ष्यते जीवो, वातवद्ध्वजकम्पनात् ।।६८।। राज्ञोक्तं भगवनेत-देवमेव न संशयः । त्वदीयवाक्यमन्त्रैर्मे, नष्टो मोहपिशाचकः ॥६९।। परं कुलक्रमायातं, नास्तिकवाददर्शनम् । तत्कथमिव शक्तोऽहं, मोक्तुमकाण्ड एव हि ॥७०|| गुरुराह महाराज!, स्तोकमेतद्विवेकिनाम् । किं वा व्याधि: क्रमायातो, दारिद्रं वा न मुच्यते ॥७१॥ यथेह वणिज: केऽपि, नानावाहनसंयुता: । वाणिज्येन प्रगच्छन्तो, लोहाकरमपश्यत ॥७२॥ ततो लोहं गृहीत्वा ते, गच्छन्त: पुनरग्रत: । त्रपुकाकरमालोक्य, मुक्त्वा लोहं ततो मुदा ॥७३।। त्रपुकस्य भृता गन्त्रयो, नैको लोहं विमुञ्चति । सीसपत्रं ततस्तानं, रुप्यं स्वर्णं च हीरकान्॥ दृष्ट्वा विमुच्य पूर्वोत्तं, त्रपुताम्रादिकं क्रमात् । लाभवन्त: प्रमोदेन, हीरकानेव केवलान् ।।७५।। एकस्तु भण्यमानोऽपि, वणिग्भिस्तैर्मुहुर्मुहुः । तल्लोहं नैव तत्याज, कुग्रहग्रस्तमानस: ॥७६॥ तत: सर्वे समायाता:, स्वेषु स्वेषु गृहेषु ते। तत्र च हीरकग्राही-वणिजो विलसन्त्यलम् ॥७७॥ लोहग्राही तु तानुच्चै- जानान् ददतस्तथा । दृष्ट्वा दन्दह्यतेऽत्यन्तं, पश्चात्तापकृशानुना ॥७८॥ तथा तवापि भो राजन् !, पश्चात्तापो भविष्यति । अतो विमुच्यतामेष, ध्रुवं निन्द्य: कदाग्रहः ॥७९॥ समग्रोपाधिं मुक्त्वैव, धर्मे यत्नो विधीयताम् । येनायं तीर्यते दुर्गो, दूरपारो भवोदधिः ॥८०॥ ततो जीवादितत्त्वानि, बुद्धोऽद्भुतशुभाशय: । प्रत्यपद्यत सुश्राद्ध-धर्म द्वादशभेदकम् ।।८।।। १ यतु सारिता-BC । जतु सारिता-J ॥२ प्रावेश-BC । प्रावेशाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org