________________
अधिकार १४ / श्लोक २८३-२८४ / केशि-प्रदेशिकथा
३२९
एवं करिष्य इत्युक्त्वा, गतश्चित्रो निजां पुरीम् । सूरयोऽप्यन्यदा काले, यथोदितविहारतः ॥२५॥ विहरन्त: समायाता:, श्वेतवत्यामथ क्रमात् । स्थिताश्च प्रासुके स्थाने, सुसंयतजनोचिते ॥२६॥ वर्धापितस्ततश्चित्रो, गुरूदन्तनियुक्तकैः । तत्रस्थेनैव तेनापि, सूरयस्तेऽभिवन्दिता: ॥२७॥ चिन्तितं च यथैषो हि, राजा पापेषु कर्मसु । सक्तश्चण्डश्च रौद्रश्च, महामिथ्यात्वमोहितः ॥२८॥ मय्यपि मन्त्रिणि प्राज्ञे, नरके निपतिष्यति । तदुपायेन केनापि, सूरिमूले नयाम्यहम् ॥२९॥ ततोऽश्ववाहनव्याजा-निजोद्यानसमीपके । नानावृक्षादिभी रम्ये, निनाय सचिवो नृपम् ॥३०॥ प्रवेशितश्च तत्रासौ, खेदापनोदनच्छलात् । जनमध्यगता यत्र, धर्ममाख्यान्ति सूरयः ॥३१॥ सूरिनि:स्वनमाकर्ण्य, भूपति: प्राह मन्त्रिणम् । यथा भो किमयं मुण्डो, रारटीति महारवैः ॥३२॥ मन्त्री प्राह न जानेऽहं, तदभ्यर्णेऽभ्यगम्यताम् । ततो जगाम सूरीणा-मन्तिके मन्त्रिसंयुत: ॥३३।। सूरिणापि ततस्तस्य, प्रारब्धा धर्मदेशना । देवतत्त्वं समाख्यातं, जीवाजीवादयस्तथा ॥३४॥ धर्माधर्मफलं चैव, स्वर्गादि च परिस्फुटम् । राजाह सर्वमेवेद-मसम्बद्धं त्वयोदितम् ॥३५॥ असम्बद्धत्वमेतस्या-त्यन्तासत्त्वादिति ब्रुवे । असत्त्वं पुनरध्यक्ष-प्रमाणाविषयत्वत: ॥३६॥ वियदिन्दीवरादीव, तत: सूरिरुवाच तम् । येयं भो भो नराधीश!, गोचरातीतता किल ॥३७॥ सा तवैव किमाहोश्वि-त्सर्वेषामपि देहिनाम् । आयपक्षे गृहस्तम्भ-कुट्यादीनामपीह भोः ॥३८॥ अभावो जायते जीव-स्वर्गादीनामिव स्फुट: । त्वदीयदर्शनस्यार्वा-ग्भागवर्तित्वगादिके ॥३९॥ प्रवृत्तेनैव मध्यादि-भागेषु भो नरेश्वर ! । नापि द्वितीयक: पक्षो, यस्मादयमसिद्धिमान् ॥४०॥ तत्सिद्धौ च तवैवेह, सर्वज्ञत्वं प्रसिद्धयति । सर्वज्ञत्वे च संसिद्धे, जीवत्वं सिद्धमेव हि ॥४१॥ जीवत्वे सति सन्त्येव, पुण्यपापादयोऽखिला: । इत्यादिना प्रवादेन, नास्तिकत्वे निराकृते ॥४२॥ राज्ञोक्तमभविष्यत्सन्, परलोको यदि ध्रुवम् । आसीच्च धर्मसन्निष्ठा, सर्वदा जननी मम ॥४३॥ ततस्तव मतेनासौ, भविष्यति दिवं गता। पिता तु पापकर्माभू-त्स नूनं नरकं गतः ॥४४॥ तन्माता किं न मामेत्य, सम्बोधयति सत्वरम् । यथा भो मा कृथा: पापं, दूरं दुर्गतिकारणम् ॥४५॥ मत्सम्बोधकृते किं वा, समेत्य नरकादिह । पितात्मीयमहो मह्यं, न प्रयच्छति दर्शनम् ।।४६।। सूरि: प्राह महाराज!, यत्ते माता समेति नो । स्वर्गान्मनुष्यलोकेऽत्र, तत्राऽऽकर्णय कारणम् ॥४७॥ देवा हि सर्वदात्यन्तं, विषयासक्तमानसा: । असमाप्तविधेयाश्च, मनुजेषु च नि:स्पृहा: ॥४८॥ नरक्षेत्रं च दुर्गन्धं, नेहागच्छन्ति तेन ते । नारकास्तु पराधीना, दु:खार्ताश्च निरन्तरम् ।।४९।। स्वकर्मरज्जुभिर्बद्धा, आगच्छेयु: कथं तु ते ? । निर्गन्तुमनसोऽपीह, बन्धुस्नेहपरा अपि ॥५०॥ यथेहागसि कुत्रापि, कृते कोऽपि नरस्त्वया । अन्धगुप्तौ सुगुप्तायां, गाढं बद्ध्वा प्रवेशितः ॥५१॥ सोऽभिलषेद्यदि द्रष्टुं, ज्ञातिवर्गं निजं नृप !। त्वं किं विज्ञप्यमानोऽपि, तं वराकं विमुञ्चसि ? ॥५२॥ भूयोऽपि भूपति: प्राह, भगवन्नेकदा मया । चौर एको महाकुम्भ्यां , प्रक्षिप्तो यत्नतस्ततः ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org