________________
३२८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
केशिप्रदेशिकथानकं पुनरिदंअस्त्यत्र भारते क्षेत्रे, सुरमन्दिरशोभिता । नगर्यामलकल्पाख्या, रम्यारामादिराजिता ॥१॥ तस्यां बभूव वीरस्य; समवसृतिरन्यदा । सूरिकाख्यसुरस्तत्र, वन्दनार्थमुपागतः ॥२॥ अभिवन्द्य महावीरं, स प्राह प्रकृताञ्जलि: । भगवन् सर्वमेवेह, यूयं जानीत पश्यथ ।।३।। गौतमादिमुनीनां तु, किञ्चिन्नाटयं प्रदर्शये । तूष्ण्यैव भगवांस्तस्थौ, सूरिकाभ: सुरस्ततः॥४॥ दिशमुत्तरपौर्वस्ती, गत्वा सिंहासनं तथा। विकुळ तत्र सन्तिष्ठं-स्ततो दक्षिणतो भुजात् ॥५॥ दिव्यातोद्यं च गन्धर्व-सन्नाट्यविधिसंयुतम् । शतमष्टाग्रमाकृष्टं, कुमाराणां वराकृतिं ॥६॥ वामभुजाच्च देवीनां, रम्यं नाट्यविधिं तत: । द्वात्रिंशद्विधमादर्श्य, निजं स्थानमुपाययौ ॥७॥ श्रीमता गौतमेनाथ, पृष्टो वीरजिनेश्वर: । भगवन्नमर: कोऽयं ?, कथं वा प्राप्तवानिमाम् ? ||८|| देवर्द्धिं सर्वतोभद्रां, कथं वा सुकृतं कृतम् ? । उत्पन्न: कुत्र वा कल्पे ?, कुतो धर्मं च लब्धवान् ? ॥९॥ भगवानाह सौधर्मे, विमाने चारुणाभके। चतुष्पल्योपमायुष्को, देवोऽयं सूरिकाभिधः ॥१०॥
जन्मन्यनन्तरे चायं, श्वेतवत्यां महापुरि । प्रदेश्याख्योऽभवद्राजा, सूर्यकान्तास्य-गेहिनी ॥११॥ पुत्रस्तु सूर्यकान्ताख्यो, मन्त्री चित्राभिधोऽभवत् । स च प्रदेशिना राज्ञा-न्यदा क्वचित्प्रयोजने ॥१२॥ श्रावस्त्यां प्रेषित: पुर्यां, जितशत्रुनृपान्तिके ।
स च तत्र गतो दृष्ट्वा, पार्श्वजिनगणाधिपम् ॥१३॥ आचार्यं केशिनामानं, चतुर्ज्ञानसमन्वितम् । सानन्दो वन्दते भक्त्या, धर्मं चाकर्णयत्यसौ ॥१४॥ धर्मं श्रुत्वा च सम्बुद्धः, सूरीणामन्तिके तत: । पञ्चाणुव्रतिकं सप्त-शिक्षापदसमन्वितम् ।।१५।। श्राद्धसम्बन्धिनं धर्मं, विधिना प्रतिपद्य च । भाषते भगवन्नस्ति, श्वेतवत्यां मम प्रभुः ॥१६॥ प्रदेशिसंज्ञितो राजा, सोऽपि सम्बुद्धयते यदि । तदा सम्पद्यते श्रेष्ठं, तत: सूरि: प्रभाषते ॥१७॥ भद्रेदं शोभनं चैव, केवलं यस्तव प्रभुः । प्रदेशिनामको राजा, क्रूरकर्मा दुराशय: ॥१८॥ इहलोकाभिसम्बद्धः, परलोकपराङ्मुखः । अनेकसत्त्वहन्ता च, निर्धर्मो निर्दयस्तथा ॥१९॥ नास्तिकमतवादी च, स कथं प्रतिभोत्स्यते ? । ततश्चित्रो वदत्येवं, युष्माकं किं प्रवेशिना ? ॥२०॥ श्वेतवत्यांजनोऽन्योऽस्ति, भूयान् भव्येश्वरादिकः । सोऽभिवन्दिष्यते पूज्या-न्मन: करिष्यते तथा॥२१॥ अशनादिकमाहारं, सद्भक्त्या सम्प्रदास्यति । वस्त्रं पात्रं च शय्यां च, पीठकं फलकं तथा ॥२२।। किञ्च तत्रान्यलोकानां, युष्माकमनुभावत: । सम्यक्त्वादिमहालाभो, भविष्यति गुणो महान् ॥२३॥ सूरिणोक्तमहो चित्र !, करिष्यामो यथोचितम् । त्वया धर्मे महायत्नो, विधेय: प्रतिवासरम् ॥२४॥ १ प्रतिपद्यते-BJCT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org