________________
अधिकार १४ / श्लोक २७४-२८४ / शिष्टसङ्गमहिमा .
३२७
इति श्लोका एकादश पाठसिद्धा एव, तथापि किञ्चिदुच्यते-महामोहभराक्रान्ता बृहदज्ञानभरावष्टब्धाः, दुःखौघ एवाऽऽवर्तन्त इत्येवंशीला दुःखौघावर्तवर्तिन:, स्वहितायात्मकल्याणाय न चेष्टन्ते न व्याप्रियन्ते शिष्टसङ्गात्सज्जनसम्पर्कादृते विना नरा 'मानवा: ॥२७॥
मोक्षमार्गपरिज्ञानं शिवपथावबोधो न तावज्जायते न तावत्सम्पद्यते नृणां नराणां यावन्नोन्मीलिते यावन्नैव विकासिते नेत्रे लोचने : शिष्टसङ्गशलाकया सज्जनसम्पर्ककीलिकया ॥२७५।।
दुर्गतिद्वारहेतूनि कुगतिमुखकारणानि, सर्वानर्थकराणि च समस्तव्यसनजनकानि च सुलभानि सुप्रापाणि कुमित्राणि कुत्सितसुहृदः, शिष्टसङ्गस्तु दुर्लभ: सद्योगो दुष्प्रापः ॥२७६।।
तमस्तानवकर्तारोऽज्ञानकृशत्वकारका: प्रशमामृतवर्षिण उपशमसुधावर्षका:, शरदिन्दुसमा: शारदचन्द्रसन्निभाः सन्त: सत्पुरुषाः सन्तोषितजगज्जना आनन्दितविश्वलोका: ॥२७७।।
एको द्वौ वेति श्लोक: स्पष्टः, नवरं कल्पोपपदपादपा: कल्पवृक्षा: ॥२७८॥ मालतीचन्दनमिति श्लोको व्यक्तः ॥२७९|| शरद्धदजलाकारमिति कण्ठ्यं, नवरं शरत्काले ह्रदजलाकारं नदनीराकारम् ॥२८०॥ असारोऽपीत्यादि श्लोकत्रयं सुव्यक्तमेव, नवरं जन्तुभिः परोपकारकरणशीलैः ॥२८१-२८३॥
यै: कैश्चित्स्वार्थं स्वप्रयोजनं परिहत्य परित्यज्य हृद्यहृदयैर्बन्धुरमनोभि: प्राय: प्रायेण परार्थः परप्रयोजनं कृतो विहित:, यैरेकान्तहितावहा निर्विकल्पं हितकारिका तनुमतां शरीरिणां दत्ता वितीर्णा मतिर्बुद्धिः पृच्छतां प्रश्नयतां, यैराजन्माऽऽजन्मकालाज्जितेन्द्रियैर्विजितनिजाक्षैर्जगदिदं भुवनमेतच्छुभैः शुक्लैर्गुणैरौदार्यादिभिर्जीवपरिणामै: शुभ्रितमुज्ज्वलितं, ते संसारसर:सरोरुहसमा: ते पुरुषा: संसारसरोवरस्य शोभाकारित्वात्सहस्रपत्रसन्निभा: सेव्या आसेवनीया: संदा सर्वदा सज्जना: सत्पुरुषा इति ॥२८४॥
१ समानवा:-BJCM Jain Education International
For Private & Personal Use Only
www.jainelibrary.org