________________
३२६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शिष्टसङ्गाऽधिकारः १४
उक्तो दानादिचतुर्विधोऽपि धर्मः, स च शिष्टैरेव सेव्यत इत्यतस्तदनन्तरं शिष्टसङ्गाधिकारमाह
महामोहभराक्रान्ता, दुःखौघावर्तवर्तिनः । स्वहिताय न चेष्टन्ते, शिष्टसङ्गादृते नराः ॥२७४॥ मोक्षमार्गपरिज्ञानं, न तावजायते नृणाम् । यावन्नोन्मीलिते नेत्रे, शिष्टसङ्गशलाकया ॥२७५॥ दुर्गतिद्वारहेतूनि, सर्वानर्थकराणि च । सुलभानि कुमित्राणि, शिष्टसङ्गस्तु दुर्लभः ॥२७६॥ तमस्तानवकर्तारः, प्रशमामृतवर्षिण:।। शरदिन्दसमाः सन्तः, सन्तोषितजगज्जनाः ॥२७७।। एको द्वौ वा त्यो वापि, पुरग्रामेषु सज्जनाः । यद्वा सन्ति न सर्वत्र, कल्पोपपदपादपाः ॥२७८॥ मालतीचन्दनचन्द्र-सुधा येन विनिर्मिताः।। तेनैव दलेनैते, स्रष्ट्रा सृष्टः हि सज्जनाः ॥२७९॥ शरद्धदजलाकारं, गम्भीरं मलवर्जितम् । कोपेऽपि शिशिरं मध्ये, बहिरुष्णं सतां मनः ॥२८०॥ असारोऽप्येष संसार:, सारवानिव लक्ष्यते । परदुःखदुःखितैः सद्भिः, परोपकृतिचञ्चुभिः ॥२८१॥ सागरादपि गम्भीरा, मेरोरपि गरीयसी। भूयसी भूरिश: कार्या, सङ्गति: सह सज्जनैः ॥२८२।। क्रूरकर्मापि सत्सङ्गा-ल्लभते फलमुत्तमम् । केशिसङ्गाद्यथा लब्धं, फलम् राज्ञा प्रदेशिना ॥२८३॥ यैः स्वार्थं परिहृत्य हृद्यहृदयैः प्रायः परार्थ: कृतः, यैरेकान्तहितावहा तनुमतां दत्ता मति: पृच्छताम् । यैराजन्म जितेन्द्रियैर्जगदिदं शुभैर्गुणैः शुभ्रितं ते संसारसरःसरोरुहसमा: सेव्या: सदा सजनाः ॥२८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org