________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३२५
अथासौ बाहुदण्डाभ्या-मुद्धृतो हलिना हरिः । स च प्रोत्क्षिप्यमाणश्च, सर्वाङ्गैरपि हेलया ।।३५४।। विलीयतेऽग्नितापेन, नवनीतमिव द्रुतम् । ततश्च केशवो गाढं, महादुःखौघपीडित: ।।३५५।। भो राम ! मुञ्च मुञ्चाशु, मां महावेदनातुरम् । यतः प्रजायते दुःखं, विशेषेण सुदारुणम् ॥३५६।। तद्गच्छ भारते वर्षे, कुर्विदं मामकं वच: । गत्वा तत्र गदाचक्र-शङ्खखड्गप्रधारकम् ।।३५७।। पीतवस्त्रधरं रम्यं, गरुडध्वजभूषितम् । विधेहि मामकं रूपं, रामरूपं स्वकं तथा ॥३५८॥ वरं नीलाम्बरं बिभ्रन्, मुशलं लागलं तथा । तालचिह्नध्वजोपेतं, ततः सर्वं महीतले ॥३५९॥ सर्वेषामपि लोकानां, परिभ्रम्य प्रदर्शय । ततो रामोऽपि तत्सर्वं, तथैव प्रतिपन्नवान् ॥३६०॥ ततो राम: समागत्य, मर्त्यलोकं ततो वरम् । विमानमकरोत्तत्र, निवेश्य प्रतिमा हरे: ॥३६॥ स्वकीयं च प्रतिच्छन्दं, ततो भ्राम्यन् महीतले । लोकेभ्यो दर्शयामास, स्ववैरिभ्यो विशेषत: ॥३६२॥ ऊचे चैवं हली स्वीय-शत्रूणामग्रतो यथा । पुरेषु स्वेषु भो भूपा-स्त्रिकचतुष्ककादिषु ॥३६३।। प्रतिमा नो' विधायाशु, निवेशयत सर्वत: । पूजयध्वं च धूपाद्यै-नमस्कुरुत सादरम् ॥३६४॥ वयं हि सृष्टिसंहार-कारकास्त्रिदशोत्तमाः । देवलोकादिहागत्य, दिव्यदेवर्द्धिसंयुताः ॥३६५॥ [स्व] क्रीडाभिरनेकाभिः, क्रीडामात्रं [हि] भूतले । सृष्टानेकजनवाता:, सृष्टानेकमहापुर: ।।३६६॥ यस्मादस्माभिरेवेह, सृष्टेयं द्वारिकावती। अस्माभिरैव संहत्य, प्रक्षिप्ता पश्चिमोदधौ ॥३६७।। तदहो वयमेवेह, सृष्टिसंहारकारका: । कारणिकपुमांसश्च, विश्वस्यास्येति बुद्धयताम् ।।३६८॥ ततो लोकेन भीतेन, तथैव तत्प्रतिश्रुतम् । कृताश्च प्रतिमा: सर्व-ग्रामेषु नगरेषु च ॥३६९॥ पारम्पर्येण सञ्जाता, लोके ख्यातिरियं तथा । ब्रह्मेशकेशवा लोक-सृष्टिसंहारकारकाः ॥३७०।। सर्वमेतत्ततो राम:, कारयित्वा दिवं गत: । आस्ते च तत्र भुञ्जानो, दिव्यां भोगपरम्पराम् ॥३७१। तथा जरत्कुमारोऽपि, कलिङ्गाधिपभूपते: । सुतायांपुत्रमुत्पाद्य, वसुध्वजाभिधानकम्॥३७२।। तस्मै राज्यं निजं दत्त्वा, भववासविरागत: । तीर्थे नेमिजिनस्यैव, प्रव्रज्यां प्रतिपन्नवान् ॥३७३।। तदहो पात्रसद्दान-मनुमोदयतोऽपि हि। दातृतुल्यं फलं प्राज्यं, हरिणस्येव जायते ॥३७४॥ ददध्वं तद्यथाशक्त्या, दानं पात्राय भावतः । वित्ताभावे कुरुध्वं भोः, पात्रदानेऽनुमोदनम् ॥३७५॥
इति दानाद्यधिकार:
१ वो-BIC | नौ- मु. ॥ २ पूजयत्पुष्पधूपाद्यै: BIC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org