________________
३२४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अन्यदा चारुदारूणां, हेतवे रथकारका: । समागता वने तत्र, छिन्दन्ति स्म महाद्रुमान् ॥३२६।। अथ मासोपवासस्य, पारणे रामसन्मुनि: । प्रभोक्तुं च प्रवृत्तेषु, तेषु भिक्षार्थमागत: ॥३२७॥ शुष्कपत्रतृणाहारी, तस्य मार्गानुलग्नकः । स मृगोऽपि समायात-स्तस्मिन्नेव प्रदेशके ।।३२८॥ ततोऽसौ राममालोक्य, वनच्छेदकनायकः । व्यचिन्तयद्यथाद्याहो, मम पुण्यमहोदयः ॥३२९।। मरुस्थलेऽपि सम्प्राप्तो, मया कल्पमहीरुह: । सञ्जातोऽद्य कृतार्थोऽहं, पूर्णसर्वमनोरथ: ।।३३०॥ येन ममैष भिक्षार्थं, महामुनिरिहागतः । तत्करोमि निजात्मानं, विगताखिलकल्मषम् ॥३३१॥ अस्मै भिक्षाप्रदानेन, साधुवृत्ताय साधते । एवं विचिन्तयन् शुद्ध-शुभभावसमन्वित: ।।३३२॥ सम्भ्रान्तो बलदेवर्षि, प्रणम्य विहिताञ्जलि: । विशुद्धयमानभावश्च, गृहीत्वा भक्तपानके ॥३३३।। सद्भक्तिबहुमानाभ्यां, तस्मै दातुं समुद्यत: । द्रव्यक्षेत्रादिभि: शुद्धं, गृहीतं मुनिनापि तत् ॥३३४|| ततश्च रथकारेण, पात्रदानप्रभावत: । सद्तेर्योग्यताकर्म, निबद्धं भावशुद्धितः ॥३३५।।
मृगोऽपि पृष्ठतस्तिष्ठन्, सानन्दो रामसन्मुनेः । गुरौ गाढानुरागेण, बाष्पवारिप्लुतेक्षण: ॥३३६।। रथकारे च संन्यस्त-मन्थरस्निग्धदृष्टिकः । निष्पन्दकर्णयुग्मश्च, नमत्सुदीर्घकन्धरः ॥३३७|| एवं चिन्तितुमारब्धो, यथायं रथकारकः । धन्य: पुण्य: कृतार्थश्च, नृजन्मास्य सुलब्धकम् ।।३३८॥ येनैष प्रवराहारैः, सन्मुनि: प्रतिलम्भितः । अहं त्वधन्यको जात-स्तिर्यग्योनौ स्वकर्मभिः ॥३३९।।। नैवाहमीदृशं पात्रं, समर्थः प्रतिलम्भितुम् । तदपुण्यक एवाहं, धिग्धिग् जातिं मदीयकाम् ॥३४०।। सर्वदायं वनच्छेत्ता, पुण्यभागत्र भूतले । अथासौ रथकारोऽपि, सत्पात्रप्रतिलम्भनात् ।।३४१॥ सहसोद्गतरोमाञ्च:, परं तोषमुपागतः । रामेण चिन्त्यते चैवं, यथा मे मासपारणे ॥३४२।। द्रव्यक्षेत्रादिभि: शुद्धा, भिक्षाप्राप्तिरभूदिति । एवं त्रयोऽपि ते याव-द्धर्मध्यानमुपागता: ॥३४३।। आसते पतितस्ताव-दर्धच्छिन्नो महाद्रुमः । बलदेववनच्छेतृ-मृगाणामुपरि द्रुतम् ॥३४४।। तेन ते चूर्णिता: सन्त-स्त्रयोऽपि स्वायुष: क्षये। अगच्छन् पञ्चमे कल्पे, ब्रह्मलोकाभिधानके ॥३४५॥ पुष्पोत्तराभिधाने च, विमाने रत्नभास्वरे । भास्वदेहधरा देवा:, समुत्पन्ना महर्द्धिकाः ॥३४६।। एवं वर्षशतं कृत्वा, श्रामण्यं रामसन्मुनिः । तत्रैव त्रिदशो जातो, विशिष्टर्द्धिसमन्वितः ॥३४७॥ ततश्चावधिना रामः, पूर्वस्नेहातिरेकतः । कृष्णं वीक्षितुमारब्धो, यावत्तृतीयकक्षितौ ॥३४८।। दृष्टो दुरन्तदुःखार्तो, नारको नरकालये । ततस्तत्र गत: शीघ्रं, कृत्वा वैक्रियविग्रहम् ।।३४९।। दिव्यरत्नप्रभाजालैः, समुद्योतं विधाय च । सुगन्धिपुद्गलक्षेपं, कृत्वा कृष्णं ददर्श स: ॥३५०॥ ऊचे चैवं यथा भ्रात:, कृष्ण! स्वबन्धुवत्सल!। प्रियं ते सज्जनानन्द!, किमिदानीं करोम्यहम्॥३५१॥ कृष्ण: प्राह स्वयं चैवो-पार्जिताशुभकर्मणाम् । भुञ्जानस्य फलं तीव्र, दुःखरूपं ममाधुना ॥३५२॥ को नाम शक्तियुक्तोऽपि, परित्रां कर्तुमीश्वरः । स्वयमेव हि भुज्यन्ते, स्वानि कर्माणि जन्तुभिः ॥३५३।। १ रामेणाऽप्यचिन्त्येवं-BC | रामेणाप्यचिन्तयत्येवं-J॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org