________________
अधिकार १३ / लोक २६४ - २७३ / भावनायां बलदेव- मृग- रथकारकथा
ततः शोकातिरेकेण, महादुःखौघदुःखिताः । गत्वा शत्रुञ्जये कृत्वा, पादपोपगमं च ते ॥ २९८ ॥ मृत्वा च क्षीणकर्मांशा, गताः सर्वे शिवालयम् । तथा राजीमतीपार्श्वे, द्रौपदी विहितव्रता ॥ ब्रह्मलोकाभिघे कल्पे, महर्द्धिक: सुरोऽजनि । तथानेका गता देव्यो, रुक्मिणीप्रमुखाः शिवम् ॥ ३००॥ माता च नेमिनाथस्य, शिवादेवी दिवं गता । तथा नव दशाराश्च समुद्रविजयादयः ॥३०१॥ दाहे च द्वारिकावत्या, रोहिणी देवकी तथा । नरेशो वसुदेवश्च, त्रीण्यपि त्रिदिवं ययुः ॥ इतश्च बलदेवोऽपि, महर्षिस्तुङ्गिकाचले । घोराकारं तपः कुर्वन्नास्ते संयमतत्परः ॥ ३०३|| प्रायो मासार्धमासान्ते, काष्ठवाहिजनादितः । लब्धं पारयते शुद्धं, प्राशुकं भक्तपानकम् ॥३०४|| तैस्तृणकाष्ठहाराद्यैः, शिष्टं गत्वा निजे पुरे । यथा कोऽपि तपस्तीव्रं तप्यमानः सुदुष्करम् ||३०५ || आस्ते भोः ! तुङ्गकाशैल - शिखरे सुन्दराकृतिः । ततस्तत्रत्यभूपालः, क्षोभेणैवं व्यचिन्तयत् ॥ ३०६ ॥ कश्चिन्मदीयराज्यार्थी, करोत्येवंविधं तपः । किञ्चिद्विद्याविशेषं वा, प्रसाधयितुमुद्यतः || ३०७ || तदहो ध्वंसयामस्त- मित्यालोच्य परस्परम् । लातनानायुधव्रात - सन्नद्धा बद्धवर्मिकाः ॥ ३०८ ॥ सद्यानवाहनारूढा, गता रामर्षिसन्निधौ । ततः सिद्धार्थदेवेन, बलदेवपदान्तिके ॥ ३०९ ॥ भीषणाः सिंहसङ्घाता, बीभत्समुखदंष्ट्रिकाः । विकुर्विता महारौद्राः, सुतीक्ष्णनखकोटयः || ३१०॥ ततस्तं तादृशं दृष्ट्वा, भीतास्ते दूरतो नृपाः । प्रणम्य बलदेवर्षि, स्वस्थानेषु द्रुतं गताः ॥ ३११॥ नरसिंह इति ख्यातिं प्राप रामोऽपि भूतले । तस्य च तत्र शैलाग्रे, स्वाध्यायादि प्रकुर्वतः ॥ ३१२॥ तेन सुस्वरशब्देन, धर्मदेशनया तथा । आक्षिप्तमानसाः सन्तो, व्याघ्रसिंहमृगादयः || ३१३|| आटव्या बहवो जीवा, मुक्तवैरानुबन्धकाः । तिष्ठन्ति बलदेवस्य समीपे शान्तचेतसः ॥३१४|| केचन श्रावका जाता:, केऽपि भद्रकतां गताः । प्राप्ताश्चानशनं केऽपि, केचित्तपः प्रकुर्वते ॥३१५॥ तिष्ठतो गच्छतो वापि, कायोत्सर्गस्थितस्य च । मुक्तमांसादिभक्ष्याश्च, रामर्षिं पर्युपासते ||३१६ ॥ ततश्चैको मृग: पूर्व- जन्मसम्बन्धतः किल । जातजातिस्मरोऽत्यन्तं, परं संवेगमागतः ॥ ३१७ | यत्र यत्र बलो याति, भक्तपानादिकार्यत: । तत्र तत्र मृगः सोऽपि, परिभ्राम्यति मार्गतः ॥ ३१८ ॥ अन्यदा बलदेवर्षि-र्मासोपवासपारणे । भिक्षाकाले तु भिक्षार्थ - मेकत्र प्राविशत्पुरे ॥३१९॥
एकया कूप - तटस्थतरुणस्त्रिया । ततश्च रामरूपश्री - क्षिप्तमानसया तया ॥ ३२० ॥ कुम्भकण्ठं विमुच्यैव, भ्रान्त्या प्रादायि पाशकः । कटीतटात्समुत्तार्य, स्वशिशोरेव कण्ठके ॥३२१॥ ततोऽवतारितः कूपे, व्यलोकि [च] बलेन सः ।
निवारिता च सा बाला, यथा किं नेक्षसे शिशुम् ? ||३२||
ततो रामोऽतिसंविग्नो, मनस्येवं व्यचिन्तयत् । अहो देहोऽपि मे प्राणि-वर्गस्यानर्थकारणम् ॥ ३२३॥ तदिदानीं न दृश्येऽहं, स्त्रीभिर्यत्र व्यवस्थितः । तत्रस्थेनैव सङ्ग्राह्या, भिक्षा नैवान्यथा मया ॥ ३२४|| एवमभिग्रहं लात्वा, तस्मादेव प्रदेशतः । विनिवृत्त्य विनीतात्मा, तस्मिन्नेव वने गतः ॥ ३२५॥
Jain Education International
३२३
For Private & Personal Use Only
www.jainelibrary.org