________________
३२२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
श्रीमतो नेमिनाथस्य, प्रसादेन सुरोऽभवम् । उक्तश्चाहं त्वया पूर्वं, यथा भो प्राणवल्लभ ! ॥२७०।। त्वयाहमापदि क्वापि, सम्बोध्य: सर्वयत्नतः । ततोऽहमागतो राम!, त्वत्प्रतिबोधहेतवे ॥२७१॥ स चायं प्रतिबोधस्य, काल: सम्प्रति वर्तते । यथोक्तं स्वामिना पूर्वं, यथा जरत्कुमारकात् ॥२७२।। हरे: सम्पत्स्यते मृत्यु-स्तथैव च बभूव भोः । श्रुत्वेदं हलिना प्रोक्तं, कदा पुनर्जनार्दनः ॥२७३।। भद्र! जरत्कुमारेण, व्यापादितस्तत: सुरः । आचख्यौ सर्ववृत्तान्तं, हरिव्यापादनादिकम् ॥२७४।। तावद्यावत्स कृष्णेन, पाण्डवानां समीपके । सम्प्रेषित: प्रियालाप-पूर्वं जरत्कुमारकः ॥२७५।। तत: स्नेहात्समालिझ्य, सिद्धार्थ हलिनोदितम्। यथा भो: किंमया कार्य-मिदानीं कथयस्व मे॥२७६।। देव: प्राह महाभाग !, सर्वसङ्गविवर्जनात् । सर्वज्ञोक्तविधानेन, कुरु श्रामण्यमुत्तमम् ॥२७७॥ संस्मर च जिनेन्द्रस्य, नेमेस्तानि वचांस्यहो । रामः प्राह करोम्येष, श्रामण्यं साधुसेवितम् ।।२७८॥ सुष्ठ दुःखविमोचिन्यो, नेमिवाच: स्मराम्यहम् । परं कुत्र नयिष्यामि, हरेरेतत्कलेवरम् ॥२७९॥ देवेन भाषितं राम !, नदीद्वितयसङ्गमे । मुक्त्वेदं पुष्पगन्धाद्यैः, सत्कुर्म: पूजयामहे ॥२८०॥ यतस्तीर्थकृतश्चक्र-वर्तिनो रामकेशवा: । पूजामर्हन्ति सर्वेऽपि, पूजिताश्च जनैः सदा ॥२८१।।। तंतस्ताभ्यां द्वयोर्नद्यो:, सङ्गमे पुलिने वरे । हरेर्देहमिमं मुक्त्वा , पूजितं संस्कृतं तथा ॥२८२।। अत्रान्तरे च रामस्य, स्वामिनारिष्टनेमिना। प्रव्रज्यासमयं ज्ञात्वा, विद्याधरश्च सन्मुनिः ।।२८३।। प्रेषितो बलदेवस्य, प्रव्रज्यादानहेतवे। आगतस्तन वेगेन, दीक्षां च हलिने ददौ ॥२८४॥ ततो भगवतोऽरिष्ट-नेमेर्वाक्यैस्तदा हली। परं संवेगमापन-त्रुटित: स्नेहजालकः ॥२८५|| तुङ्गिकाभिधशैलस्य, शिखरे संवृतेन्द्रिय: । एकाकी कर्तुमारब्ध-स्तप:कर्मसुदुष्करम् ॥२८६॥ सिद्धार्थोऽपि दृढं हृष्टः, प्राचीनस्नेहरज्जुभि: । रक्षस्तमेव रामर्षि, नित्यं तत्रैव तिष्ठति ॥२८७॥ तथा जरत्कुमारोऽपि, दक्षिणांमथुरां ययौ। दृष्टाश्च पाण्डवास्तेभ्यो, ढौकित: कौस्तुभो मणिः ।। शिष्टं च द्वारिकावत्या, दाहलोकक्षयादिकम् । नि:शेषं पाण्डुपुत्रेभ्य-स्तावद्यावदिहागत: ॥२८९॥ श्रुत्वेदं पाण्डवा: शोका-न्महाक्रन्दनपूर्वकम् । चक्रिरे मृतकृत्यानि, वर्षमेकं सुदुःखिताः ॥२९०॥ ततो जरत्कुमाराय, दत्त्वा राज्यश्रियं निजाम् । सर्वेऽपि प्रस्थिता गन्तुं, श्रीमन्नेमिजिनान्तिके ॥२९१।। अत्रान्तरे जिनेन्द्रेण, नेमिना पाण्डवान्तिके । सम्प्रेषितश्चतुर्ज्ञानी, साधुसन्दोहसंयुतः ॥२९२॥ दीक्षार्थं पाण्डुपुत्राणां, धर्मघोषाभिधो मुनि: । प्रवाजिताश्च ते तेन, साधुना सुविधानतः ॥२९३।। ततो नेमिजिनस्यान्ते, गन्तुमारेभिरे च ते । षण्मासान्तं च षष्ठाद्यं, कुर्वन्तो दुष्करं तपः ॥२९४।। यतस्ते तावदायाता, यावद् द्वादशभिः किल । योजनैर्वर्तते श्रीमान्, नेमिनाथो जिनेश्वरः ॥२९५।। ततस्तैश्चिन्तितं चित्ते, परमानन्दनिर्भरैः । वयं नेमिजिनं प्रात-र्सन्द्रक्ष्याम: सुनिश्चितम् ॥२९६।। तत्रैव गमिता रात्रि:, प्रभाते च श्रुतं तकैः । जनवादाद्यथा नेमि-रुज्जयन्ते शिवं गत: ॥२९७॥ १ मिदं-BJC | २ धर: सन्मुनि:- BJC ॥ ३ द्राक्षाम-BC । क्षयाम: J । वृक्षयाम: मु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org