________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३२१
कस्मै वापि च रुष्यामि ?, किं मरणमुपेम्यहो ? । समाप्त: सर्वथैवायं, जीवलोको ममाधुना ॥२४२।। इत्थं प्रलपतस्तस्य, भास्वानस्तगिरौ गत: । क्रमात्प्रसारितध्वान्ता, रजनी च समागता ॥२४३।। ततो विशेषतो राम-श्चक्रन्दे मोहमोहित: । आक्रन्दसङ्कुलं कुर्वन्, समग्रं तदरण्यकम् ।।२४४॥ तत: प्रभातकाले च, वियोगमसहन्नसौ । स्वस्कन्धे च समारोप्य, कुर्वन्नानाप्रलापकान् ।।२४५।। बभ्राम सर्वतस्तत्र, नानावृक्षकुले वने । नदीगिरिनिकुञ्जेषु, गुहासु विवरेषु च ।।२४६।। इत्थं च भ्राम्यत्तस्तस्य, वर्षाकाल: समागत: । अत्रान्तरे च रामस्य, सिद्धार्थाभिधसारथिः ॥२४७।। पूर्वव्यावर्णितो यस्तु, तप: कृत्वा दिवं गतः । स देवोऽवधिना ज्ञात्वा, भ्राम्यन्तं हलिनं तथा ॥२४८।। स्वचित्ते चिन्तयत्येव-महो स्नेहानुरागिता। अहो मोहस्य माहात्म्य-महो कर्मविचित्रता ॥२४९।। येनायं वोढुमारब्धो, जीवमुक्ततनुं हरिम् । तद्गत्वा बोधयाम्येने, बान्धवं बन्धुवत्सलम् ॥२५०॥ तत आगत्य देवेन, पुमानेको विकुर्वित: । उत्तारयन् गिरैर्दुर्गा-जीर्णप्रायं महारथम् ॥२५१॥ स पुनः स्यन्दनस्तस्मि-नितश्चेत: स्खलनपि । न भग्नः पर्वते दुर्गे, गण्डशैलसमाकुले ॥२५२।। समं च भूतलं प्राप्य, जगाम शतखण्डताम् । ततोऽसौ पुरुषस्तानि, दारूण्यादाय योजयन् ॥२५३।। रामेणोक्तो महाभद्र!, यो न भग्नो गिरावपि। भग्नस्त्वत्र च तं मुग्ध!, कथं सन्धातुमिच्छसि ? ॥२५४॥ देव: प्राह यथा भो भो, य एष किल केशव: । भूरियुद्धसहस्रेषु, युद्ध्यमानोऽपि नो मृत: ।।२५५॥ विनापि सोऽधुना युद्धं, मृत: सुप्तोऽत्र कानने । जीविष्यति यदा चैष, स्कन्धारूढस्तवानुजः ॥२५६।। तदा रथोऽप्ययं भद्र !, भविष्यति पुनर्नव: । ततस्तूष्णीक एवाशु, हली गन्तुं प्रचक्रमे ॥२५७॥ देवेन रोपयन् भूय:, शिलापट्टेषु पद्मिनी: । विकुर्वित: पुमानेको, रामेणैवमवाचि स: ।।२५८|| कथं शिलासु पद्मिन्यो, मुग्ध ! रोहन्ति रोपिता: । सुर: प्राह तव भ्राता, जीविष्यति यदाचल!॥२५९॥ पग्रिन्योऽपि तदैवैता, रोहिष्यन्ति न संशयः । ततश्च मौनवृत्त्यैव, गच्छता हलिनाऽग्रत: ॥२६०॥ दृष्ट एको नर: स्थाणु-कल्पं तिन्दुकिनीद्रुमम् । दग्धं वनं हुताशेन, सिञ्चन् वारिभृतैर्घटैः ॥२६१।। ततो रामस्तकं प्राह, भद्रायं दग्धपादप: । कदा संसिच्यमानोऽपि, पुनर्मोक्ष्यति पल्लवान् ॥२६२॥ देवेनोक्तं यदा काले, त्वदीयस्कन्धसंस्थिते । एतस्मिन् मृतके व्यक्तं, चैतन्यं प्रभविष्यति ॥२६३॥ तत: स्तोकान्तरं याव-दतस्तावद्विलोकित: । ददन्नीलतृणवातं, गोपो गवां करोटिषु ।।२६४॥ स उक्तो बलदेवेन, यथास्थिशेषा इमा: कदा। जीविष्यन्ति पुनर्गावो, दत्तैर्नीलतृणैरपि ॥२६५।। देवेनाभाणि भो मुग्ध !, यदैष तव बान्धव: । जीविष्यति मुराराति-र्लब्धसुव्यक्तचेतनः ॥२६६॥ श्रुत्वेदं लब्धसज्ञेन, रामेणैवं प्रजल्पितम् । किमेष मामको भ्राता, सत्यं सम्प्रापःपञ्चताम् ? ॥२६७।। येनैवं कोऽपि मामत्र, वने बोधयते नरः । अथ देवोऽपि सिद्धार्थ-रूपं कृत्वाऽब्रवीदिदम् ॥२६८।। सोऽहं भो भो ! तव भ्राता, राम ! सिद्धार्थनामकः । य: प्राचीनभवेऽभूवं, सारथिस्ते महारथ! ॥२६९॥ १ भग्नश्चात्र तं-BJC२°स्थितं-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org