________________
३२०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
गच्छेदानीमित: स्थाना-दित्युक्तोऽपि स विष्णुना । यदा नैवेहते गन्तुं, तदा भूयोऽप्यभाणि सः ।। गच्छ गच्छामुत: शीघ्रं, मा मा वत्स ! विलम्बय । जानासि चैव रामस्य, स्नेहवत्त्वं ममोपरि॥ पानीयार्थं गतो राम, एष आगच्छति ध्रुवम् । दृष्ट्वा चैवमवस्थं मां, भद्र ! त्वां मारयिष्यति ।। ततो बाणं समुद्धृत्य, शीघ्रं पादतलादसौ । गतस्तेनैव मार्गेण, कृच्छ्राजरत्कुमारकः ॥२१७॥ ततश्च वासुदेवोऽपि, वेदनातुरमानस: । कर्तुं पञ्चनमस्कार, प्रारब्ध: शुद्धचेतसा ॥२१८॥ प्रणम्य चाहत: सर्वान्, त्रैलाक्यार्चनमर्हत: । सिद्धांश्च परमानन्द-समृद्धान् प्रणमाम्यहम् ॥२१९॥ आचार्यान् पञ्चधाचार-धारकानौमि भक्तित: । स्वाध्यायध्यानतन्निष्ठा-नुपाध्यायान् प्रणौम्यहम्॥ नमामि सर्वसाधूश्च, धर्मकर्मप्रसाधकान् । नम: श्रीनेमिनाथाय, त्रैलोक्यहितकारिणे ॥२२१॥ य: सर्वसङ्गमुत्सृज्य विनिष्क्रान्तो महामुनिः । एवं कृतप्रणामोऽसौ, परं संवेगमागत: ॥२२२॥ संस्तीर्य तृणसंस्तार, देहमाच्छाद्य वाससा । सुप्तो दृष्ट्वा निजावस्थां, चिन्तयामास मानसे ॥२२३॥ धन्या: प्रद्युम्नशाम्बाद्याः, सर्वे शेषाश्च यादवा: । धन्यास्ते पौरलोकाश्च, निष्क्रान्ता ये जिनान्तिके॥ ताश्च धन्यतरा देव्यो, रुक्मिण्याद्या मन:प्रिया: । या: सर्वसङ्गमुत्सृज्य, नेम्यन्ते जगृहुतम् ॥२२५॥ अहं त्वीदृशदुःखानि, वेदयाम्यत्र कानने । अकृत्वैव हितं कर्म, म्रिये बन्धुविवर्जितः ।।२२६।। एवं विचिन्तयन् मृत्वा, तृतीयायां गतः क्षितौ । जातश्च नारकत्वेन, बद्धायु: कर्मयोगतः ॥२२७।। अथ रामोऽपि वेगेन, समादायामलं जलम् । आयातो वार्यमाणोऽपि, शकुनैर्विपरीतकैः ।।२२८॥ दृष्टश्च केशवस्तेन, शयानो दीर्घनिद्रया। अहो श्रान्त: स्वपित्येष, शेतां तावत्क्षणान्तरम् ॥२२९।। पश्चादस्मै विबुद्धाय, दास्यामीदमहं जलम् । अतिस्नेहाकुलत्वाच्च, न जानाति यथा मृतः ॥२३०॥ एवं विकल्पयन् राम:, प्रतीक्ष्य क्षणमेककम् । हरि विलोकयामास, मक्षिकापटलान्वितम् ।।२३१।। दृष्ट्वा च तादृशं भीतो, हा हतोऽस्मीति सङ्गिरन् । मुखाद्वस्त्रं समुत्तार्य, यावत्सम्यग् निरीक्षते ॥२३२।। तावद् दृष्टो मृतावस्थो, बीभत्सो हलिना हरिः । ततश्च मूर्च्छया भूमौ, सहसैव पपात स: ॥२३३॥ लब्ध्वाऽथ चेतनामुच्चैः, सिंहनादं प्रमुक्तवान् । यथा कम्पितुमारब्धं, तद्वनं श्वापदाकुलम् ॥२३४|| ऊचे चैवं यथा भो भो, भ्राता येन हतो मम । सत्यं यदि भट: कोऽपि, स मे यच्छतु दर्शनम् ।।२३५।। कथं वा मुच्यते घात: ?, सुप्तप्रमत्तकादिषु । एवमादि रटन्नुच्चै-वने भ्रान्त्वा समन्ततः ॥२३६।। भूयोऽपि चागतो रामो, वासुदेवस्य सन्निधौ । रोदितुं च समारब्धो, नानाकारं महारवैः ॥२३७।। हा गुणाकर ! हा वीर!, हा भ्रातर्हा जनार्दन ! । हा यादवकुलानन्द !, हा मे हृदयवल्लभ! ॥२३८॥ किं तेरोदिमिभो बन्धो!, वीरत्वं विक्रमं बलम्। सौभाग्यं सौहृदंरूपं, किं वाद्भुतामुदारताम् ? ॥२३९|| किमन्य इव सञ्जातो, न दत्से येन मे वच: ? । किमेकाकी करोम्यद्य ?, जनार्दन ! त्वया विना॥२४०॥ तदहं कुत्र गच्छामि ?, कं वा पृच्छामि साम्प्रतम् ? । कं चेहोपालम्भे लोकं, कं वा शरणमाश्रये? ।। १ मुत्सृष्ट-BIC ॥ २ सौहृदयं-BC । सुहृदयं-J।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org