________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३१९
स जरत्कुमारकोऽकस्मा-दायात: केशवान्तिकम्। तेन चारोप्य कोदण्ड-माकृष्य निशितं शरम्॥१८८॥ दूरादेव कुरङ्गोऽयं, तिष्ठतीति विमर्षत: । विद्ध: पादतले मर्म-देशे तेन जनार्दनः ॥१८९॥ स चोत्थायातिवेगेन, जल्पितवानिदं वचः । अहो पादतले केन, प्रविद्धोऽहं विनाऽऽगसा ॥१९०।। अविज्ञातकुल: कोऽपि, न मया हतपूर्वकः । तस्मात्कोऽयं समाख्यातु, स्वं गोत्रं त्वरितं मम ।।१९१।। ततो जरत्कुमारोऽपि, कुडङ्गान्तरिताङ्गकः । व्यचिन्तयद्यथा नैष, मृग: किन्तु पुमानयम् ॥१९२॥ मां [च] सम्पृच्छते गोत्रं, तदस्मै कथयाम्यहम्। श्रूयतां भो समाख्यामि, निजं गोत्रं च नाम च॥१९३॥ अहं हि हरिवंशोत्थ-वसुदेवस्य नन्दन: । आत्मजश्च जरादेव्या, ज्येष्ठभ्राता हरेस्तथा ॥१९४॥ नाम्ना जरत्कुमारोऽहं, श्रुत्वा नेमेरिदं वचः । यथा भावी हरेर्मृत्यु:, पार्धाजरत्कुमारत: ॥१९५॥ आकर्येदं परित्यज्य, बन्धुवर्गं निजं तत: । वनावनान्तरं प्रोच्चै-रेवं परिभ्रमाम्यहम् ।।१९६।। समाश्च द्वादशातीता, अथाख्यातु भवानपि। कस्त्वं किमभिधानश्च ?, तत: कृष्णोऽब्रवीदिदम्॥१९७॥ आगच्छाऽऽगच्छ भो भ्रात:!, स एवाहं जनार्दन: । कनिष्ठकस्तव भ्राता, रामस्यापि तथैव च ॥१९८॥ त्वं चैवं मम रक्षार्थं, महाटव्यामटस्यहो । यावच्च सर्वथा जातो, निष्फलोऽयं परिश्रमः ॥१९९।। तदेहि भ्रातरित्युक्ते, सोऽपि शीघ्रं समागत:। कृष्णोऽयमिति मन्वान-स्तथास्थं तं च दृष्टवान् ॥२०॥ ततो बाष्पाम्बुपूर्णाक्ष:, प्रलापानकरोदसौ । हाहा हतो दुरात्माहं, निजबान्धवघातकः ॥२०१॥ को वा मां भ्रातृहन्तारं, द्रष्टुमपीह शक्ष्यति । इत्थं नानाविधानुच्चैः, प्रविधाय प्रलापकान् ।।२०२॥ गोविन्दमतिशोकार्लो, जगाद गद्गदस्वरम् । कुतस्त्वं भो इहायात:!, किमेकाकी च दृश्यसे? ॥२०३|| किं वा द्वीपायन: पापो, ददाह द्वारिकावतीम् ? । नष्टा न वेति भो सर्वे, यादवा वह्निसम्भ्रमात्॥२०४॥ तत: कृष्णो यथा दृष्टं, तस्मै सर्वं न्यवेदयत् । अथ जरत्कुमारोऽपि, विलपन्नेवमभ्यधात् ॥२०५॥ अहो अद्य मया चक्रे, आतिथ्यमीदृशं हरेः । तदहं कुत्र गच्छामि ?, कस्मै चेदं निवेदये ? ॥२०६।। स्वभ्रातुर्घातकं को वा, मामीक्षितुमपि शक्ष्यति । इत्यादि प्रलपन्नुच्चैः, साश्रु: शोकसमाकुल:॥२०७॥ संस्थाप्य कोमलालापैः, स एवं हरिणोदित: । अहोशोकं त्यजाऽऽदाय, मम वक्षःस्थलादिमम्॥२०८।।
मणिं कौस्तुभनामानं, गच्छ त्वं पाण्डवान्तिकम् ।
वृत्तान्तश्चायमाख्येय-स्तेभ्य: सर्वः सविस्तरः ॥२०९।। भणितव्याश्च ते सम्यग, मद्वचनेन साञ्जसम् । यथा भो यत्तदा काले, गङ्गाया: सरितस्तटे ॥२१०॥
द्रौपदी धातकीखण्डा-न्मयकानयता तथा ।
निर्भर्त्सता: खरैर्वाक्यैः, सञ्चूर्णितास्तथा रथा: ।।२१।। : स्वदेशत: समस्तांश्च, यन्निस्य विराधिता: । युष्माभिस्तन्ममाशेषं, क्षन्तव्यं सर्वथापि हि ॥२१२॥ यथा क्षमाप्रधाना हि, भवन्ति पुरुषोत्तमा: । युष्मादृशो विशेषेण, नितान्तस्निग्घबान्धवाः ॥२१३॥ शूरा: सत्यप्रतिज्ञाश्च, कृतज्ञा बन्धुवत्सला: । महात्मान: सदा चैव, परोपकृतिकर्मठा: ।।२१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org