________________
३१८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तत्र च धृतराष्ट्रस्य, पुत्रो राजाच्छदन्तकः । [राज्यं करोति गर्विष्ठो, यादवानां रिपर्धवम् । श्रीवत्सं निजवस्त्रेण, समाच्छाद्य ततो बल: । प्रविष्ट: पत्तने तत्र, प्रकृत्या सुन्दराकृतिः ॥१६॥ जनोल्लापश्च तत्राभू-द्यथाहो द्वारिकावती। औत्पातिकाग्निना दग्धा, हरिरामौ च निर्गतौ ॥१६२॥. ततस्तं सीरिणं दृष्ट्वा, सच्छायं प्रांशुविग्रहम् । अद्भुतरूपलावण्यं, जगादेवं जनो मिथः ॥१६३॥ अहो रूपमहो कान्ति-रहो देहप्रमाणता । एवं संश्लाघ्यमानोऽसौ, कुल्लरिकापणं ययौ ॥१६॥ गृहीतं च वरं भक्ष्यं, दत्त्वाङ्गुलीयकं निजम् । वारुणीं चातिसुस्वादां, हस्तकङ्कणदानत: ॥१६५॥ ततो निर्गन्तुमारब्धः, प्राप्तश्च गोपुरान्तिकम् । इतञ्चारक्षकैः पुंभि:-र्गत्वा राज्ञे निवेदितम् ॥१६६॥ राजन् कश्चिन्नर: प्रांशु-सुन्दराकारधारकः । बलभद्रानुकारी च, विशालोदारमानसः ॥१६७।। दत्त्वाऽङ्गुलीयकं स्वीयं; महायँ कटकं तथा ॥१६७All गृहीतपानभक्तोऽसौ, निर्याति नगरान्ननु । श्रुत्वेदमच्छदन्तेन, शीघ्रमेव निजं बलम् ।।१६८।। सम्प्रेषितं प्रवृत्तं च, प्रयोद्धं हलिना सह । कृताह्वाननसज्ञा च, वासुदेवस्य सीरिणा॥१६९।। स्वयं भक्तं च पानं च, मुक्त्वैकत्रातिवेगत: । प्रत्यासन्नं समारुह्य, हस्तिनं तबलं ततः।।१७०।। सञ्चूर्णयितुमारब्धः, केसरीव मृगव्रजम् । अथ त्वरितमागत्य, केशवोऽप्यतिरोषतः ॥१७१।। भङ्क्त्वा द्वारकपाटानि, गृहीत्वा च महार्गलाम् । अच्छदन्तबलं सर्वं, सञ्चूय॒दमभाषत ।।१७२॥ रेरे मूढ ! महापाप!, दुराचाराच्छदन्तक! । किमम्माकं गतं क्वापि, बलं शारीरमप्यहो ? ॥१७३॥ ततो भुक्ष्व निजं राज्यं, भुक्तास्माभिरियं स्थिति: । इत्युक्त्वा तौ गतौ रम्यो-द्याने नानाद्रुमाकुले॥ अश्रुपातं च कुर्वन्तौ, स्मृत्वा पूर्वां निजस्थितिम् । कृत्वार्हतां नमस्कारं, भक्तिसारं कृताञ्जली॥१७५।। तद्भक्तं भोक्तुमारब्धौ, चिन्तयन्तौ च ताविदम् । अहो तथा तदा भुक्त्वा-ऽधुनेत्थमपि भुज्यते॥१७६।। अहो बाढं क्षुधातृष्णे, दुर्धर देहिनां सदा । किञ्चिद्भुक्त्वा च पीत्वा च, कृत्वा चाचमनक्रियाम्॥ दक्षिणाभिमुखं गन्तुं, प्रवृत्तौ रामकेशवौ । सम्प्राप्तौ च महारण्यं, कोसम्बवननामकम् ॥१७८।। तत: सलवणाहारा-न्मद्यपानात्पथि श्रमात् । ग्रीष्मकालाच्च शोकाच्च, पुण्यानां क्षयतस्तथा ॥१७९।। वासुदेव: परिश्रान्तो, बाध्यते तृष्णयाधिकम् । उक्तं चानेन भो राम!, शुष्यत्यास्यं तृषा मम ॥१८०॥ नैवाहं सर्वथा शक्तो, गन्तुं यावजलाशयम् । रामेणोक्तं महाभाग !, मम हृदयातिवल्लभ ! ॥१८१॥ त्वमत्र तिष्ठ विश्राम्यन्, छायायामस्य शाखिन: । तत: कौशेयवस्त्रेण, समाच्छाद्य निजांतनुम् ॥१८२॥ जानूपरि निधायाड्रिम्, तत्र सुष्वाप केशव: । उक्तश्च रामदेवेन, हे हे हृदयवल्लभ ! ॥१८३।। स्थातव्यमप्रमत्तेन, तावदत्र त्वया क्षणम् । स्वच्छामलं जलं याव-च्छीघ्रमेवानयाम्यहम् ॥१८४|| भ्रातृस्नेहाच्च तेनैवं, भणिता वनदेवता: । यथायं मे प्रियो भ्राता, युष्माकं शरणागत: ।।१८५।। रक्षणीय: प्रयत्नेन, भणित्वैवं जगाम स: । अत्रान्तरे महाव्याध-वेषधारी सुभीषण: ॥१८६।। व्याघ्रचर्मावृताङ्गश्च, चापव्यग्रकरस्तथा । इतश्चेत: परिभ्राम्यन्, मृगघातचिकीर्षया ।।१८७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org