________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३१७
पुरीं ज्वलद्भुताशेन, दह्यमानां समन्ततः । [दह्यमानजनाराव-कोलाहलसमाकुलाम् ॥१३३।। अथ द्वीपायनेनापि, विधाय सकलान्यपि । द्वाराणि ज्वालिता प्रोच्चैः, समन्ताद् द्वारिकावती ॥१३४।। इतश्च बलभद्रस्य, कुब्जवाराभिधाङ्गज: । शोकातुर: समारुह्य, निजप्रासादमूर्धनि ॥१३५।। एवं ब्रूते यथा भो भो, आकर्णयत देवता: ! । अहं हि नेमिनाथस्य, शिष्य: सम्प्रति संयत: ॥१३६।। निर्ममो निरहङ्कारो, नि:सङ्गो निष्परिग्रहः । निवृत्त: सर्वपापेभ्य:, सर्वभूतदयापर: ॥१३७॥ तदहो यदि वच: सत्यं, श्रीमन्नेमे: सुनिश्चितम् । ततश्चरमदेहोऽहं, निर्दिष्टोऽरिष्टनेमिना ॥१३८|| मया च किल गन्तव्यं, मोक्षे प्रक्षीणकर्मणा । इदं चाकाण्ड एवेह, दृश्यते मृत्युकारणम् ।।१३९।। तत्किं नेमिजिनस्यापि, सद्भूतार्थप्रवादिनः । भवितालीककं वाक्यं?, तेनैवं जल्पिते सति ॥१४०॥ उत्पाट्य जृम्भकैर्देवै-र्देशे पल्हवनामनि । नीतो नेमिजिनंस्यान्ते, स शीघ्रं कुब्जवारकः॥ कृष्णस्य च सहस्राणि, देवीनां किल षोडश । पादपोपगमं मृत्यु, सम्यग्भावेन चक्रिरे ॥१४२।। तथा यादवरामाभिः, प्रभूताभिस्तदा किल । पादपोपगमं चक्रे, भीताभिर्वह्निदाहत: ॥१४३॥ एवं द्वासप्ततिश्चैव, षष्टिश्च कुलकोटय: । द्वीपायनेन पापेन, दग्धास्तत्र महापुरि ॥१४४॥ षभिश्च किल तां मासै-नगरी निर्ददाह स: । पुनश्च प्लावयामास, सलिलै: पश्चिमोदधि: ।।१४५।। अथोक्तो हरिणा रामो, शोकातुरेण चेतसा । रामेयमावयो: कीदृक्, सञ्जाता विषमा दशा ॥१४६॥ विप्रयुक्ता वयं सर्वैः, पुत्रमित्रादिभिर्निजैः । तदहो कुत्र गच्छामो ?, यूथभ्रष्टा मृगा इव ।१४७॥ रामेणोक्तमथास्माकं, सन्ति सुस्निग्धबान्धवाः । पाण्डुपुत्रा: सदाचारा:, सत्यविक्रमशालिन:॥ तेषां च दक्षिणाम्भोधि-संस्थितां मथुरां पुरीम् । गच्छाम: किं विलम्बेन ?, तत: प्राह जनार्दनः ।। द्रौपद्यानयनं राम!, कुर्वता मयका तथा । सर्वस्वहरणं कृत्वा, निर्भय॑ च कटूदितैः ॥१५०॥ निष्काशितास्तदा काले, रोषात्स्वदेशतोऽपि ये । तेषां समीपके भ्रात: !, प्रगन्तुं शक्यते कथम् ? ।। ततश्चाभाणि रामेण, कृष्णैते पाण्डुपुत्रका: । सत्यवन्त: सदाचारा:, सारविक्रमशालिन: ॥१५२॥ अस्माकमेव विस्तीर्ण- कुले जाता नरोत्तमा: ॥१५२।। ते पराभवबुद्धयाऽऽवां, न द्रक्ष्यन्ति कदाचन । एवमेतदिति प्रोक्तं, हरिणा हलिनं प्रति ॥१५३॥ ततो गन्तुं प्रवृत्तौ तौ, पादचारेण सत्वरम् । शोकाविष्टौ समाश्रित्य, दिशं प्राचीनदक्षिणाम् ॥१५४|| 'चलन्तौ तौ क्रमेणाथ स्मरन्तौ च निजां पुरीम् । सौराष्ट्रदेशमुल्लङ्घ्य, सम्प्राप्तौ च क्रमादमू॥१५५॥ हस्तिकल्पे पुरे तस्य, बाह्योद्याने च तस्थतुः । उक्तश्च हरिणा रामो, यथाद्य मां क्षुधातृषे॥ बाधेते भ्रातरत्यर्थं, ततो रामोऽब्रवीदिदम् । एष गच्छाम्यहं शीघ्रं, तव भक्ताम्बुहेतवे ॥१५७|| त्वयकाप्यप्रमत्तेन, स्थेयं कृष्णात्र कानने । यदि चात्र पुरे कश्चि-दपायो मे भवेदहो ॥१५८॥ कुर्वेऽहं सिंहनादं भो, तदातित्वरितं त्वया । समागन्तव्यमित्युक्त्वा, पुरमध्ये गतो हली ॥१५९॥ १ गृहमानौ शरीरातां-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org