________________
३१६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तैरपि कर्तुमारब्धं, तत्तथैवाखिलं जनैः । सोत्साहं सविशेषं च, संसारभयभीरुभिः ॥१०४।। अन्यदा द्वारिकावत्या, नाशे कृतनिदानक: । कृत्वा बालतपस्तीव्र, द्वीपायनोऽतिदुर्मतिः ॥१०५।। मृत्वा चाग्निकुमारेषु, समुत्पन्नो महासुरः । स्मृतं च तेन तद्वैरं, रौद्रं यादवनाशकम् ॥१०६।। ततोऽसौ द्वारिकावत्या, विनाशार्थमुपागतः । न च कर्तुं पुरीभङ्गं, रुष्टोऽपि शशाक सः ॥१०७|| यतस्तत्र जनस्तीवं, तप:कर्म करोत्यलम् । देवानां च गुरूणां च, विधत्ते परिपूजनम् ॥१०८॥ वैराग्यभावनारूढः, स्वाध्यायध्यानतत्परः । प्रकरोति प्रयत्नेन, धर्मकर्माणि सर्वदा ॥१०९।। अतो द्वीपायन: पाप:, पुरीलोकस्य तस्य सः । विधातुं शक्नुते नैव, सुरुष्टोऽपि पराभवम् ॥११०॥ ततश्चातीवकोपान्ध-श्च्छिद्रान्वेषी निरन्तरम् । अन्तरिक्षे भ्रमन्नास्ते, बद्धामर्षः पुरीं प्रति ॥११॥ तावद्यावदतीतानि, वर्षाणि द्वादशापि हि । न चैव द्वारिकावत्या, भङ्गं कर्तुं शशाक स: ॥११२।। ततोऽचिन्ति जनेनैवं, जजल्पे च परस्परम् । अहो भ्रष्टप्रतिज्ञोऽयं, निरोजा निष्प्रभोऽजनि ॥११३।। अहो नष्टो विनष्टोऽयं, लोके धर्मपरे सति । निर्विण्ण: खिन्नचित्तश्च, गतोऽसौ क्वापि दुर्मतिः ॥११४॥ एवमालोच्य तत्रत्य:, सानन्दो निर्भयो जन: । नानाक्रीडाभिरत्यर्थं, प्रक्रीडितुं प्रचक्रमे ॥११५॥ मत्तो गायंश्च नृत्यंश्च, पपौ कादम्बरी सुराम् । तत: सोऽपि समासाद्य, छिद्रं द्वीपायनोऽधमः ॥११६।। उत्पातकशतान्युच्चै-स्तत्रानेकानि जज्ञिरे । ततो द्वीपायन: पापो, वातं संवर्तकाभिधम् ॥११७|| कल्पान्तवातसङ्काशं, सर्वतोऽपि विमुक्तवान् । ततः प्रज्वालयामास, सर्वतस्तां महापुरीम् ॥११८।। प्रक्षिप्तवांस्तदन्तश्च, तृणकाष्ठादिकं बहु । नश्यल्लोकाननेकांश्च, तिरश्चश्च गवादिकान् ॥११९।। संवावर्त्य तत्रैव, प्रचिक्षेप स दुर्मतिः । प्रादुर्भूतस्ततो रौद्रो, हाहारवो दिशोदिशि ॥१२०।। हस्त्यश्वादितिरश्चां च, जनानां च सुदारुण: । ततश्च स्यन्दने रम्ये, आरोग्य पितरौ निजौ ॥१२१॥ द्वितीये तु रथे शीघ्रं, रोहिणी देवकी तथा । पुर्या निर्गन्तुमारब्धौ, प्रेरिताश्च किशोरका: ॥१२२।। यावद्गन्तुं क्षमा नाश्वा, वह्निज्वालाकरालिता: । तावत्तौ स्वयमाक्रष्ट-मारब्धौ निजकैर्भुजैः ॥१२३।। नीतौ च गोपुरद्वारे, ताभ्यां कृच्छ्रेण तौ रथौ । संरुद्धाविन्द्रकीलेन, निर्गच्छन्तौ च गोपुरात् ॥१२४॥ तं चूर्णयति पादेन, यावद्रामो महारुषा । तावच्च सर्वतस्तत्तु, प्रतोलीमुखमुच्चकैः ॥१२५।। सम्प्रज्वलितुमारब्धं, दूरं दारुणवह्निना । अत्रान्तरे जगादैवं, द्वीपायनोऽधमासुरः ।।१२६।। यथा भो रामगोविन्दौ !, पूर्वमेव मयोदितम् । विमुक्तिर्युवयोरेव, नैवान्यस्य शुनोऽपि-हि ॥१२७॥ एतस्या द्वारिकावत्या, दुरन्ते दाहसम्भ्रमे । ततश्च वासुदेवेन, पादेनाहत्य पातितम् ॥१२८॥ कपाटमेककं भूमौ, रामेण तु द्वितीयकम् । अत्रान्तरे तु रोहिण्या, देवक्या च प्रजल्पितम् ॥१२९।। यथा भो पुत्रकौ ! वत्सौ!, स्वकुलानन्दकारकौ ! । युवाभ्यामिह जीवद्भ्यां, यादवानां समुन्नतिः।। भविष्यति ततो भद्रौ, निर्गम्यतामित: पुरः । ततस्तौ मातृवाक्येन, रुदन्तौ शोकविह्वलौ ॥१३१।। वाक्याम्बुबिन्दुसन्दोह-सिक्तश्यामनिजाननौ । निर्गत्य बाह्यतो भग्न-काननस्थौ प्रपश्यत: ॥१३२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org