________________
अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा
३१५
ततो द्वीपायनेनोक्तं, भो भो भो यादवप्रभो ! । मया हि ताड्यमानेन, प्रतिज्ञा महती कृता ॥७५॥ यथेह द्वारिकावत्यां, प्रदीप्तायां समन्ततः । विमुक्तिर्युवयोरेव, नैवान्यस्य तथाङ्गिन: ॥७६॥ नासत्यं नेमिनो वाक्यं, न प्रतिज्ञापि मेऽन्यथा। तन्मैवं खिद्यतां व्यर्थं, गम्यतां निजकं गृहम् ॥७७|| आकर्येदं ततोऽत्यन्तं, शोकाकुलितमानसौ । जग्मतुर्नगरी स्वीयां, द्वावपि रामकेशवौ ॥७८॥ द्वीपायनप्रतिज्ञांचे, ज्ञात्वा सर्वैः पुरीजनैः । पुरीभङ्गभयोत्तस्तैः, शोचितं शोकनिर्भरैः ॥७९॥ द्वितीयेऽहनि कृष्णेन, कारिता घोषणा यथा। भो भो: पौरजना यूयं !, हरेर्वाक्यं निशाम्यत ॥८०॥ उद्यच्छत यथाशक्त्या, सततं धर्मकर्मसु । पुष्पगन्धादिभिः पूजा, विधत्तानिशमर्हताम् ॥८॥ सुसाधून पर्युपासध्वं, तदन्ते शृणुतागमम् । साधुसाधर्मिकान्नित्यं, सन्मानयत सादरम् ।।८२।। दीनादिभ्यो यथाशक्त्या, कृपादानं प्रयच्छत । सामायिकशुभध्यान-स्वाध्यायाध्ययनादिकम् ।।८३।। विधत्त सदनुष्ठानम्, सर्वदा शुद्धभावत: । पालयतामलं शीलं, भावयत सुभावना: ॥८४॥ रागद्वेषादिशश्च, विध्वंसयत यत्नत: । सन्त्यजत महाकष्टान्, महारम्भपरिग्रहान् ।।८५॥ विमुञ्चत तथा सङ्गं, कामभोगेषु दूरतः । नित्यं भवत भो लोका:!, सर्वथा धर्मतत्परा: ॥८६।। यतो भगवताऽरिष्ट-नेमिना सर्वनाशिता । कथितास्या महापुर्या:, सममेवाखिलैर्जनैः ।।८७।। अत्रान्तरे क्रमेणैव, विहरन्नेमितीर्थप: । रैवतके समागत्य, समवसृतवानिति ॥८८।। ततश्च यादवा: सर्वे, वन्दनार्थं समागता: । प्रणम्य नेमिनाथं ते, निषण्णा: स्वस्वभूमिषु ।।८९॥ संसारासारतासारा, जिनेनाकारि देशना । तां च श्रुत्वा भवावासा-निर्विण्णा: भोगनि:स्पृहा: ॥९०॥ प्रद्युम्नशुकशाम्बाद्या, भूयांसो राजदारका: । समीपे नेमिनाथस्य, प्रव्रज्यां प्रतिपेदिरे॥ अथ पूर्वभवोत्रस्ता, रुक्मिण्यपि जनार्दनम् । एवं भणितुमारब्धा, यथा भो भो नराधिप! ॥९२।। शिष्टा परिणतिस्ताव-दीदृशी जिननेमिना । संसारस्यास्य नि:शेष-यादवानां विशेषत: ।।९३।। तन्मां विसर्जयस्व त्वं, प्रव्रजामि जिनान्तिके । ततो बाष्पाम्बुपूर्णाक्षो,वासुदेवोऽपि रुक्मिणीम् ॥९४|| कष्टाद्विसर्जयामास, तत: सापि महर्द्धितः । प्रावाजीच्च सहान्याभी, राजपुत्रीभिरञ्जसा ॥९५॥ तत: शोकातुरा: सर्वे, वासुदेवादियादवा: । प्रविष्टा नगरीमध्ये, चिन्तयन्तो भवस्थितिम् ॥९६।। वासुदेवोऽपि चात्मानं, पुरमन्त:पुरं तथा । सर्वं शून्यमिवामस्त, रुक्मिणीविरहातुरः ।।९७॥ अथ नेमिर्गतोऽन्यत्र, भव्यप्रबोधहेतवे । कृष्णोऽपि घोषणां पुर्यां, भूयोऽप्येवमचीकरत् ।।९८।। यथा भो भो जना: पौरा:, परित्यजत सर्वथा । प्राणिहिंसां मृषावाद-मदत्तादानमैथुनम् ॥९९।। सर्वं परिग्रहं चैव, सर्वं च रात्रिभोजनम् । क्रोधं मानं च मायां च, लोभं दुर्गतिवर्धनम् ॥१००॥ राग द्वेष कलिं चाभ्या-ख्यानं रत्यरतिं तथा । सर्वं परपरिवादं, सर्वं पैशून्यमेव च ॥१०१॥ सर्वां मायां मृषां चैव, मिथ्यादर्शनशल्यकम् । कुरुध्वं सर्वदाक्षिण्यं, धर्मं किमु बहूदितैः ॥१०२।। षष्ठोष्टमादिरूपं च, तपध्वं दुष्करं तपः । जिनेन्द्रसाधुपूजां च, सम्पादयत सादरम् ॥१०३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org