________________
३१४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
इतश्च-कादम्बरीगुहायां तु, शिलाकुण्डेषु या सुरा । सामन्तादिभिः षड्भर्मासै: पक्वरसाऽजनि ॥४७॥
"
।
सुस्वादा सुन्दरा हृद्या, कर्केतनसमप्रभा । इतश्च गतवांस्तत्र, व्याध एकः परिभ्रमन् ॥४८॥ सद्यः शाम्बकुमारस्य, वारुणीं तां विलोक्य सः । आस्वादयितुमारब्धो, यत: स्वादुरसा हि सा ॥ ४९ ॥ पपौ च तां यथाकामं, स्वपाणिपुटकैस्ततः । वीक्षमाणेन तत्रैव, मृगास्तेन विलोकिताः ॥५०॥ यावत्तेऽपि हि सुस्वस्था, सुरापानमदोद्धुराः । क्रीडन्तस्तत्र तिष्ठन्ति, निर्भयास्तुष्टचेतसः ||५१ | ततः शाम्बकुमाराय गत्वा तेन निवेदितम् । गतश्च तत्र शाम्बोऽपि, पीता सा तेन वारुणी ॥५२॥ विचिन्तितं च किं युक्त- महो मे कर्तुमीदृशम् । यत्किञ्चित्सुखदुःखादि, सह्यते कुमरैर्विना ? ॥ ५३ ॥ तस्माद सर्वा-नानयामि कुमारकान् । तथैव तेन ते सर्वे, आनीतास्तत्र कानने ॥ ५४ ॥ दृष्टा च सा तकैर्हद्या, सुस्वादा सुन्दरा सुरा । आदिष्टाश्च स्वका भृत्या स्तदानयनहेतवे ॥५५॥ यथैनां सुन्दरां शीघ्रं, समानयत वारुणीम् । तैरपि च समानीता, तत: सानन्दचेतसः ॥५६॥ गताः सुन्दरमुद्यानं, नानावृक्षोपशोभितम् । नानापुष्पफलोपेतं, गन्धलुब्धालिसङ्कुलम् ॥५७॥ ततश्चाभाणि शाम्बेन, यथा भो भोः कुमारकाः ! । षण्मासान्ते सुलब्धेयं, कथञ्चित्पुण्ययोगतः ॥५८॥ हृद्यामृतरसस्वादां, यथेच्छं पिबत वारुणीम् । ततस्तथैव ते पातुं, प्रारब्धा हृष्टचेतसः ॥ ५९ ॥ ततो जातमदोद्रेका, ननृतुश्च जगुश्च ते । वल्गन्त्यालिङ्गयन्ते स्म युद्धयन्ते च परस्परम् ॥६०॥ क्रीडन्तश्च गताः सर्वे, पर्वताभ्यर्णकाननम् । इतश्चेतश्च ते तत्र, पर्यटन्तो व्यलोकयन् ॥ ६१ ॥ तपस्तीव्रं चरन्तं तं मुनिं द्वीपायनाभिधम् । प्रवक्तुं च समारब्धा, यथा सोऽयं महामुनिः ॥ ६२ ॥ आदिष्टो यो जिनेन्द्रेण श्रीमन्नरिष्टनेमिना । नगर्या द्वारिकावत्याः, सर्वनाशविधायकः || ६३ || तनं किं न भी हो, निष्प्रयोजनवैरिणम् । निकृष्टं निर्घृणं पापं, जनस्यास्य क्षयङ्करम् ||६४||| ततो रोषेण रक्ताक्षा, दन्तदष्टावरौष्ठकाः । प्रारब्धा यष्टिमुष्टचाद्यै र्हन्तुं द्वीपायनं दृढम् ॥ ६५ ॥ हतस्तावदसौ यावन्निर्बलः सोऽपतद् भुवि । हत्वेत्थं नगरीमध्ये, प्रविविशुः कुमारकाः ||६६ || अथेदं वासुदेवाय, कुमाराणां विचेष्टितम् । विश्रम्भणीयकैः पुंभिः, सर्वमेव प्रवेदितम् ॥६७॥ ततो व्यचिन्तयत्केशी, भो भोः पश्यत पश्यत । कुमाराणां विमूढत्वं, दुर्दान्तत्वं प्रमत्तताम् ||६८|| निरपेक्षविधायित्व-मदीर्घदर्शिता तथा । तदहो जीवितभूतानां, किमेषां कुर्महे वयम् ॥६९॥ चिरं केशी विचिन्त्यैवं, ततो रामसमन्वितः । जगाम कानने तत्र, पायनोपशान्तये ॥७०॥ दृष्टश्च रुष्टचित्तोऽसौ, द्वीपायनोऽतिदुर्मनाः । क्षामितश्च प्रियालापैः, पादलग्नेन सादरम् ॥७१॥ इत्थं न क्षमते याव-त्तावद्रामेण जल्पितम् । भो ! कृष्णालं प्रयत्नेन, किं व्यर्थं परिखिद्यसे ? ॥ ७२ ॥ यदेतेन किमप्यत्र, चिन्तितं विदधातु तत् । दुर्जनो दुर्जनञ्चैव, क्षामितोऽपि न शाम्यति ||७३|| अथवा यज्जिनेन्द्रेण नेमिनाथेन भाषितम् । तदहो सर्वथा कृष्ण !, नान्यथा जायते क्वचित् ॥७४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org