________________
अधिकार १३ / लोक २६४ - २७३ / भावनायां बलदेव- मृग-रथकारकथा ३१३
उपवासद्वयान्ते च, पारयामास सर्वदा । तेन च तिष्ठता तत्र, श्रुतं जनप्रवादतः || १९|| यथा भगवतारिष्टनेमिनेदं प्रभाषितम् । नगर्या द्वारिकावत्याः, समं च यादवैः खलु ॥२०॥ भविता सर्वथा नाशो द्वीपायनसकाशतः । तदिदं निर्घृणं कर्म, करिष्येऽहं कथं बत ? ॥ २१ ॥ विचिन्त्यैवं सखेदोऽसौ, वनान्तरमशिश्रियत् । तथा भो यत्त्वया पृष्ट-मात्ममरणकारणम् ॥२२॥ तदिदं कथ्यते तुभ्यं श्रूयतां केशवाधुना । योऽयं ज्येष्ठस्तव भ्राता, जरादेवीवरात्मजः ॥२३॥ नन्दनो वसुदेवस्य जरत्कुमारनामकः । एतस्मान्निश्चितं कृष्ण !, मृत्युस्तव भविष्यति ॥ २४ ॥ श्रुत्वेदं यादवानां तु, तस्मिन् जरत्कुमारके । हेलया पतिता दृष्टिः, सविकारातिरोषतः ॥२५॥ ततो जरत्कुमारेण, मनस्येवं विचिन्तितम् । अहो कष्टमहो कष्टं, सञ्जातं कीदृशं कथम् ? ||२६|| अहं हि वसुदेवस्य पुत्रो भूत्वापि नृप्रियः । कथं स्वभ्रातरं मूढो, मारयिष्ये कनिष्ठकम् ? ॥२७॥ अहो पापं महाताप महो निर्घृणता मम । चिरं चित्ते विचिन्त्यैव - मापृच्छय च निजं जनम् ॥ २८ ॥ जनार्दनस्य रक्षार्थं, वनवासमुपागतः । अथ नेमिः पुनः प्रोचे, यथा भो भो जनार्दन ! ॥ २९ ॥ वत्सरे द्वादशे पुर्या, अस्या नाशो भविष्यति । [ श्रुत्वेति जिनवाक्यं ते, गताः शोकं जनाः समे ] ॥ ३० ॥ ततस्ते यादवाः सर्वे, गते जरत्कुमारके । शून्यमिव निजात्मानं मन्यन्ते शोकविह्वलाः ॥३१॥ ततो नत्वा जिनं नेमिं, सर्वेऽप्युद्विनचेतसः । संसारानित्यतां चैव, चिन्तयन्तः सुदुःखिताः ||३२|| पुर्याश्च द्वारिकावत्याः, सर्वनाशं विशेषतः । प्रविष्टा नगरीमध्ये, शोकाकुलितमानसाः ||३३|| ततश्च वासुदेवेन, कारिता घोषणा पुरि । यथा भो भो जना ! नीत्वा, वने कादम्बनामनि ॥३४॥ समग्रान्यपि मद्यानि, परित्यजत सत्वरम् । श्रीमता नेमिनाथेन, यतश्चैवं प्ररूपितम् ||३५|| यथा मद्यप्रसङ्गेन शाम्बादयः कुमारकाः । द्वीपायनपरिव्राजः करिष्यन्ति कदर्थनाम् ॥ ३६ ॥ श्रुत्वा चैवं ततो लोकैः, कादम्बकमहावने । शिलाकुण्डेषु मद्यानि, सन्त्यक्तान्यखिलान्यपि ॥ ३७॥ ततः कादम्बसञ्छन्न-1 - शिलागुहासु सम्भृता । कादम्बरीति विख्याता, सा सुरा भण्यते जने ॥ ३८ ॥ अत्रान्तरे च रामस्य, भ्राता सिद्धार्थनामकः । सारथित्वं तु तस्यैव, स्नेहाद्य: प्रतिपन्नवान् ॥ ३९ ॥ श्रुत्वा यादवलोकस्य, नगर्या सह सङ्क्षयम् । रामं भणितुमारब्धो, नम्रो मधुरया गिरा ॥ ४० ॥ रामायं नेमिनाथेन, शिष्टः संसारसागरः । जन्मव्याधिजरामृत्यु - जलकल्लोलसङ्कुलः ॥४१॥ नानादुःखमहारौद्र-नक्रचक्रादिदुस्तरः । क्षणध्वंसीनि शिष्टानि, वस्तून्यत्राखिलान्यपि ॥४२॥ अस्माकं तु विशेषेण, दर्शिता सर्वनाशिता । तदहं राम ! निर्विण्ण, इतः संसारचारकात् ॥४३॥ समीपे नेमिनाथस्य, प्रव्रजामि विसर्जय । रामेणाप्यतिनिर्बन्धं, विज्ञायासौ विसर्जितः ||४३|| उक्तञ्च प्रतिबोध्योऽहं, त्वयका व्यसने क्वचित् । वाक्यं रामस्य तेनापि तत्तथैव प्रतिश्रुतम् ॥४४॥ ततः पृष्ट्वा निजं लोकं, गत्वा नेमिजिनान्तिके । संसारोत्तारिणीं दीक्षां जग्राह सुविधानतः || ४५ || ततः कृत्वा तपस्तीव्रं, षण्मासं यावदुत्तमम् । आलोचितप्रतिक्रान्तो, देवलोकं जगाम सः ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org