________________
३१२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
___ इति श्लोकदशकं कण्ठ्यं, नवरं भो इत्यामन्त्रणे, भव्या मुक्तिसुखलब्धार: ! भावना शुभभावरूपा भाव्या भावनीया, निर्मूल्या मुधिकालभ्या, शर्मसाधिका सुखकारिका, भावनयैव भावनात एव भव्यानां भवान्तो भवनाशो जायते भवति, यतो येन कारणेन, शेषं श्लोकाष्टकं स्पष्टमेव । हृदयमेव गिरिगुहा तस्या अन्तर्मध्यं तत्र संसृतं स्थितं यत्तमिस्रमिव तमिस्रमज्ञानं, तस्य तमिस्रस्यापनयनं विनाशस्तत्र दक्ष: पटुः, केवलज्ञानमेव भानुरिव भानुरादित्य:, स पुन: केवलज्ञानभानुरुदयमेत्यभ्युदयं गच्छति, कृत्स्नदोषावसाने सकलरागादिदोषक्षये, तदपि च कृत्स्नदोषावसानं न दुरापं न दुष्प्रापं वर्तते भवति ॥२६४-२७३॥
भावनाया: शुभाध्यवसायस्योपरि रथकारदानानुमोदनपरमृगकथानकं त्विदम्अत्रैव भारते वर्षे, तुङ्गप्राकारवेष्टिता । सर्वस्वर्णमया रम्या, नगरी द्वारिकावती॥१॥ स्वर्णरत्नमयानेक-शुभ्रप्रासादसङ्कुला। कुलकोटीभिराकीर्णा, रम्या च रम्यवस्तुभिः ।।२।। द्वादशयोजनायामा-नवयोजनविस्तृता । रम्यवस्तुपरिपूर्णा, दिव्या देवविनिर्मिता ॥३।। तांच पालयते कृष्ण-वासुदेवोऽर्धचक्रभृत् । बलभद्रस्तु तद्भाता, तथा जरत्कुमारकः॥ द्वावपिच तकौ ज्येष्ठौ, पिता वसुदेवोऽनयों: । ते च प्रद्युम्नशाम्बादि-दुर्ललितकुमारकाः॥५॥ अन्ये च वसुदेवाद्या, यादवा बलगर्विताः । यथाविचिन्तिताशेष-सम्पूर्णस्वमनोरथा: ॥६॥ भुञ्जाना आसते काम, कामभोगान् मनोहरान् । अन्यदा च समायात:, श्रीमन्नेमिजिनेश्वरः ॥७॥ भव्याम्बुजप्रबोधाय, केवलज्ञानभास्करः । समवसरणं रम्यं, देवादिभिर्विनिर्मितम् ।।८।। आगताश्च सुरास्तत्र, केशवाद्याश्च मानवा: । कृता च स्वामिना धर्म-देशना मोहनाशिनी ॥९॥ ततो धर्मकथान्ते च, वासुदेवेन जल्पितम् । स्वामिन्नस्या: पुर: प्रोच्चैः, समृद्धाया धनादिभिः ॥१०॥ तथा यादवकुलस्यास्य, ममेतरजनस्य च । क्षय: केन निमित्तेन, कुतो वा पुरुषान्तरात् ? ॥११॥ कियत: कालतो वापि, जगत्प्रभो ! भविष्यति ? । जिनेन जल्पितं कृष्ण !, श्रूयतां कथयामि भोः । अस्ति द्वीपायनो नाम, परिव्राजक एकक: । स च मद्यमदोन्मत्तै:, शाम्बादिभि: कुमारकैः॥ दुर्वाक्ययष्टिमुष्टयाद्यै- नाकारं खलीकृत: । विनाशयिष्यते सर्वां, वह्निना द्वारिकावतीम् ।।१४।। यादवान् शेषलोकांश्च, सर्वान् संवर्तयिष्यति । अस्य चैवं समुत्पत्ति:, सञ्जाता कथ्यते शृणु ।।१५। पूर्वं पराशरो नाम, शौरिक: पुरबाह्यत: । बभूव तत्र विख्यात-स्तापसस्तापसाश्रमे ॥१६॥ तेनैका कन्यका प्राप्ता, स्वच्छन्दा दुष्टचारिणी । तामादाय समायातो, यमुनासरितस्तटे ॥१७॥ तत्र चायं तयोर्जात:, पुत्रो द्वीपायनाभिध: । स च यौवनमारूढो, ब्रह्मचर्यं प्रपन्नवान् ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org