SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अधिकार १३ / श्लोक २६४-२७३ / भावनायां बलदेव-मृग-रथकारकथा ३११ भावनाधिकार: १३ ___ अथ भावनाधिकार उच्यते, अस्य चायमभिसम्बन्ध: पूर्वत्र तप उक्तं, तपश्च भावसारमेव क्रियमाणं कर्मक्षयाय प्रभवतीत्यतोऽत्र भावना भण्यते, तत्र भावनाया: स्वरूपं माहात्म्यं च प्रदर्शयन् श्लोकदशकमाह, तद्यथा भो भव्या ! भावना भाव्या, निर्मूल्या शर्मसाधिका। भावनयैव भव्यानां, भवान्तो जायते यतः ॥२६४॥ द्रव्येण दीयते दानं, शीलं सत्त्वेन पाल्यते । तपोऽपि तप्यते कष्टं, स्वाधीना भुवि भावना ॥२६५॥ भावनातोऽपि ये भ्रष्टा-स्ते भ्रमन्ति भवोदधौ। नात्मलाभं लभन्ते ते, बीजाभावादिवाङ्कराः ॥२६६॥ भावनातः क्षयं याति, भवकोटीभिरर्जितम् । संसारनिम्बवृक्षस्य, कटुबीजं कर्म देहिनाम् ॥२६७॥ सुबह्वपि तपस्तप्तं, चारित्रं च चिरं कृतम् । यदि भावो न सञ्जात-स्तदा तत्तुषकण्डनम् ॥२६८॥ अधीतानि च शास्त्राणि, लोकानां देशना कृता। कृतानि दिव्यकाव्यानि, जिता वादे च वादिनः ॥२६९।। भावना यदि नो जाता सद्गतिद्वारकुञ्चिका । स्वकार्यासाधकत्वेन, तदा सर्वं निरर्थकम् ।।२७०॥ रथकार: स्वयं दाता, गृहीता पात्रमुत्तमम् । निकटस्थो भावनासार-मनुमन्ता 'मृगस्तथा ॥२७१॥ वाताहतार्धच्छिन्नेन, वृक्षेण पतता सता । त्रयोऽपि चूर्णिताः सन्तो, ब्रह्मलोकमुपागताः ॥२७२॥ हृदयगिरिगुहान्त:संसृतं यत्तमिस्र, तदपनयनदक्ष: केवलज्ञानभानुः ॥ स पुनरुदयमेति कृत्स्नदोषावसाने, तदपि च न दुरापं वर्तते भावनायाः ॥२७३।। १ मृगो मुधा-JCH Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy