Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 398
________________ अधिकार १७ / श्लोक ३११-३२३ / भोगदेवकथा ३७१ किमनेन करोषि त्वं ?, भुवो भारविधायिना । पुत्रजन्मोत्सवेऽपीह, यदेतन्नोपयुज्यते ॥१२७|| अहो एषा न जानाति, यत्कष्टं द्रविणार्जने । मूर्खेयं भिन्नचित्ता च, मुग्धा वै मम गेहिनी ।।१२८॥ इत्यादि चिन्तयन्नेष, आर्तध्यानवशं गतः । गमयित्वा दिनं रात्रौ, मृत्वार्थव्ययभीरुकः ॥१२९।। तत्रैव नगरे जातो, नागिलदुर्गताङ्गजः । आजन्मतोऽप्यनिष्टश्च, मातुरप्यपपुण्यकः ॥१३०॥ क्लेशेन महता कालं, निर्वाहयति दुःखितः । आक्रोश्यमानो मात्रापि, खानपानविवर्जितः ॥१३१।। ततश्च धनसुन्दर्या, स्वभर्तुर्मुतकर्मसु । विहितेषु यथायोगं, बन्धुसम्बन्धिभिः सह ॥१३२॥ समये च कृतं नाम, दारकस्य विशोकया। सम्मतं बन्धुवर्गस्य, धनदत्त इति स्फुटम् ॥१३३।। स पुनारको दृष्ट्वा, तन्मन्दिरं जनं च तम् । जातजातिस्मरज्ञान:, परिकम्पितकन्धरः ॥१३४॥ ऊर्वीकृतकरस्तोषा-देकाक्येवाब्रवीदिदम् । अहो सुपात्रदानस्य, प्रपश्यत महाफलम् ॥१३५॥ येनाहं दुर्गतो भूत्वा, प्रेष्यकर्मकरोऽपि हि । त्रयोदशार्थकोटीनां, जात: साम्प्रतमीश्वरः ॥१३६॥ एवं जल्पन्तमालोक्य, सप्रमोदं दिने दिने । पप्रच्छ भोगदेवस्तं, विस्मयापन्नमानसः ॥१३७॥ अहो वत्स ! क एतस्य, भावार्थो जल्पितस्य ते । तेनोक्तं कथयाम्येष सावधानमना: शृणु ॥१३८॥ अत्रैवाहं पुरे रम्ये, तातस्यैव च मन्दिरे । दुर्गतकफ्ताकाख्यः, ख्यात: कर्मकरोऽभवम् ॥१३९॥ महर्षिदानमाहात्म्या-देतस्यैव च मन्दिरे । सर्वस्य नायको जात-स्तेनैवं प्रवदाम्यहम् ।।१४०।। श्रुत्वेदं भोगदेवस्य, तस्मिन् केवलिभाषिते । जात: सम्प्रत्ययो बाढं, दाने च बहुमानतः ॥१४१।। प्रविवेशान्यदा तत्र, भिक्षार्थं मुनिरेककः। गुणन्धराभिधानस्तु, तमद्राक्षीच्च बालकम् ॥१४२।। उक्तवांश्च यथा भद्र!, किमेवं हर्षनिर्भरः । जातोऽहमस्य गेहस्य, नायक इति भाषसे ॥१४३॥ नैकान्तेन प्रहर्षोऽपि, कर्तव्य: क्वापि वस्तुनि । रङ्कोऽपि जायते राजा, याति राजापि रङ्कताम् ॥१४४।। यतो यस्ते पिता भद्र !, सञ्चयशीलनामकः । अदत्ताभुक्तवित्तौघ:, सत्यप्यर्थेऽपि दुर्गत: ॥१४५॥ स मृत्वा नागिलाबस्य, रोरस्याजनि पुत्रक: । मातापितृजनद्वेष्यो, लोकानां च विशेषतः ॥१४६।। अप्राप्तभोजनाच्छादो, वेदनां वेदयन्नसौ । नरकप्रतिरूपां च, गमयामास वासरान् ॥१४७।। अतो हर्षविषादौ हि, वर्तेते भुवि देहिनाम् । सममेवेति सञ्जल्प्य, गत: साधुर्यथागतम् ॥१४८॥ श्रुत्वेदं धनसुन्दर्या, समाहूय स नागिल: । प्रोक्त: कार्यं त्वया कर्म, मद्गृह एव सर्वदा ॥१४९॥ अयं च दारक: सम्य-क्पालनीय: प्रयत्नतः। भोजनाद्यहमेवास्मै, प्रदास्यामि यथोचितम् ॥१५०॥ एषोऽपि गुरुको जात-स्तिष्ठन्नत्रैव मद्गृहे। मदीयसर्वकर्माणि, कृष्यादीनि करिष्यति ॥१५१॥ नागिलोऽपि सपत्नीक-स्तद्वाक्यं प्रतिपन्नवान् । ततस्तस्या गृहे कर्म, कुर्वतो यान्ति वासराः ॥१५२॥ अन्यदा भोगदेवोऽपि, सुखं सुप्तो गृहे निशि । शृणोति स्त्रीयुगस्योच्चैः, संलापं कौतुकावहम् ॥१५३।। तत्रैका च वदत्येवं, का भद्रे ! त्वमिहागता । साप्यवोचदहं लक्ष्मी-र्भोगदेवगृहाश्रिता ॥१५४|| १°न: स्वमात्राऽपि-BC Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466