________________
अधिकार १७ / श्लोक ३११-३२३ / भोगदेवकथा
३७१
किमनेन करोषि त्वं ?, भुवो भारविधायिना । पुत्रजन्मोत्सवेऽपीह, यदेतन्नोपयुज्यते ॥१२७|| अहो एषा न जानाति, यत्कष्टं द्रविणार्जने । मूर्खेयं भिन्नचित्ता च, मुग्धा वै मम गेहिनी ।।१२८॥ इत्यादि चिन्तयन्नेष, आर्तध्यानवशं गतः । गमयित्वा दिनं रात्रौ, मृत्वार्थव्ययभीरुकः ॥१२९।। तत्रैव नगरे जातो, नागिलदुर्गताङ्गजः । आजन्मतोऽप्यनिष्टश्च, मातुरप्यपपुण्यकः ॥१३०॥ क्लेशेन महता कालं, निर्वाहयति दुःखितः । आक्रोश्यमानो मात्रापि, खानपानविवर्जितः ॥१३१।। ततश्च धनसुन्दर्या, स्वभर्तुर्मुतकर्मसु । विहितेषु यथायोगं, बन्धुसम्बन्धिभिः सह ॥१३२॥ समये च कृतं नाम, दारकस्य विशोकया। सम्मतं बन्धुवर्गस्य, धनदत्त इति स्फुटम् ॥१३३।। स पुनारको दृष्ट्वा, तन्मन्दिरं जनं च तम् । जातजातिस्मरज्ञान:, परिकम्पितकन्धरः ॥१३४॥ ऊर्वीकृतकरस्तोषा-देकाक्येवाब्रवीदिदम् । अहो सुपात्रदानस्य, प्रपश्यत महाफलम् ॥१३५॥ येनाहं दुर्गतो भूत्वा, प्रेष्यकर्मकरोऽपि हि । त्रयोदशार्थकोटीनां, जात: साम्प्रतमीश्वरः ॥१३६॥ एवं जल्पन्तमालोक्य, सप्रमोदं दिने दिने । पप्रच्छ भोगदेवस्तं, विस्मयापन्नमानसः ॥१३७॥ अहो वत्स ! क एतस्य, भावार्थो जल्पितस्य ते । तेनोक्तं कथयाम्येष सावधानमना: शृणु ॥१३८॥ अत्रैवाहं पुरे रम्ये, तातस्यैव च मन्दिरे । दुर्गतकफ्ताकाख्यः, ख्यात: कर्मकरोऽभवम् ॥१३९॥ महर्षिदानमाहात्म्या-देतस्यैव च मन्दिरे । सर्वस्य नायको जात-स्तेनैवं प्रवदाम्यहम् ।।१४०।। श्रुत्वेदं भोगदेवस्य, तस्मिन् केवलिभाषिते । जात: सम्प्रत्ययो बाढं, दाने च बहुमानतः ॥१४१।। प्रविवेशान्यदा तत्र, भिक्षार्थं मुनिरेककः। गुणन्धराभिधानस्तु, तमद्राक्षीच्च बालकम् ॥१४२।। उक्तवांश्च यथा भद्र!, किमेवं हर्षनिर्भरः । जातोऽहमस्य गेहस्य, नायक इति भाषसे ॥१४३॥ नैकान्तेन प्रहर्षोऽपि, कर्तव्य: क्वापि वस्तुनि । रङ्कोऽपि जायते राजा, याति राजापि रङ्कताम् ॥१४४।। यतो यस्ते पिता भद्र !, सञ्चयशीलनामकः । अदत्ताभुक्तवित्तौघ:, सत्यप्यर्थेऽपि दुर्गत: ॥१४५॥ स मृत्वा नागिलाबस्य, रोरस्याजनि पुत्रक: । मातापितृजनद्वेष्यो, लोकानां च विशेषतः ॥१४६।। अप्राप्तभोजनाच्छादो, वेदनां वेदयन्नसौ । नरकप्रतिरूपां च, गमयामास वासरान् ॥१४७।। अतो हर्षविषादौ हि, वर्तेते भुवि देहिनाम् । सममेवेति सञ्जल्प्य, गत: साधुर्यथागतम् ॥१४८॥ श्रुत्वेदं धनसुन्दर्या, समाहूय स नागिल: । प्रोक्त: कार्यं त्वया कर्म, मद्गृह एव सर्वदा ॥१४९॥ अयं च दारक: सम्य-क्पालनीय: प्रयत्नतः। भोजनाद्यहमेवास्मै, प्रदास्यामि यथोचितम् ॥१५०॥ एषोऽपि गुरुको जात-स्तिष्ठन्नत्रैव मद्गृहे। मदीयसर्वकर्माणि, कृष्यादीनि करिष्यति ॥१५१॥ नागिलोऽपि सपत्नीक-स्तद्वाक्यं प्रतिपन्नवान् । ततस्तस्या गृहे कर्म, कुर्वतो यान्ति वासराः ॥१५२॥ अन्यदा भोगदेवोऽपि, सुखं सुप्तो गृहे निशि । शृणोति स्त्रीयुगस्योच्चैः, संलापं कौतुकावहम् ॥१५३।। तत्रैका च वदत्येवं, का भद्रे ! त्वमिहागता । साप्यवोचदहं लक्ष्मी-र्भोगदेवगृहाश्रिता ॥१५४|| १°न: स्वमात्राऽपि-BC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org