________________
३७०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
"कुलीनोऽपि सुजात्योऽपि, विनीतो रूपवानपि । शूरश्च चतुरोऽप्यत्र, वित्तहीनस्तृणायते" ॥११॥ "अकुलीनोऽपि मूर्योऽपि, कुरूपोऽप्यगुणोऽपि च ।
अर्थवान् पूज्यते लोके, धिगर्थरहितं नरम्" ॥१०२॥ अथासौ भोगदेवोऽपि, भूरिधान्यादिसम्पदा । सर्वत्र पुण्ययोगेन, ववृधे प्रतिवासरम् ॥१०३।। ततश्चाशेषदीनादि-साधुसाधर्मिकादिके। धर्मस्थाने विशेषेण, निजं द्रव्यं स दत्तवान् ॥१०४|| अन्यदा च समायातो, नगरे तत्र केवली । सूर्य इव स्फुरद्रोभिः, सन्देहतिमिरापहः ॥१०५॥ ततस्तस्य गता लोका, बहवो वन्दनाकृते । भोगवत्या समं तत्र, भोगदेवोऽपि चागमत् ॥१०६॥ तत: केवलिनाकारि, संवेगरसदायिका । सन्देहशतसच्छेत्री, 'पर्षदि धर्मदेशना ॥१०७॥ अथ प्रस्तावमासाद्य, भोगदेवोऽब्रवीदिदम् । सुपात्रदत्तदानस्य, किं फलं जायते नृणाम् ? ॥१०८।। जगाद केवली भद्र!, फलं सद्दानजं त्वया। विशालशालवास्तव्यो, दौर्गत्यभरपीडितः॥१०९॥ दुर्गतकपताकाख्य:, प्रष्टव्यः प्रश्नकारकः । गृहे सञ्चयशीलस्य, सार्थवाहस्य कर्मकृत्॥ इत्यादि केवली धर्म, कथयित्वा तत: स्थित: । लोकोऽपि निजकस्थाने, जगामानन्दनिर्भरः ॥१११॥ कतिचिद्दिनपर्यन्ते, ययावन्यत्र केवली । भव्याम्भोजप्रबोधाय, विवस्वानिव सप्रभः ॥११२॥ अन्यदा भोगदेवोऽपि, भोगवत्या समं ययौ । पुरे विशालशालाख्ये, दानफलपिपृच्छया ॥११३॥ दृष्टा प्रविशता तत्र, कथञ्चिदैवयोगत: । दुर्गतकपंताकस्य, गेहिनी दुर्गिलाभिधा ॥११४॥ सम्पृष्टा च यथा भद्रे!, कुत्र स्थानेऽत्र पत्तने । श्रीमत्सञ्चयशीलस्य, सार्थवाहस्य मन्दिरम् ॥११५॥ तया प्रहृष्टयाऽ भाणि, समागच्छत दर्शये । जग्मुर्दृष्टं च तद्नेह, पूर्णं च सुन्दरश्रिया ॥११६॥ । भार्यां सञ्चयशीलस्य, नामतो धनसुन्दरीम्। पप्रच्छ च यथा भद्रे!, समस्त्यत्र गृहे तव॥ दुर्गतकपताकाख्यो, युष्मत्कर्मकर: स्फुटम् । तया प्रोक्तमहो श्रेष्ठिन् !, बभूवासौ गृहे मम ॥११८॥ नवमो वर्तते मासो, मृतस्यास्य तु साम्प्रतम् । इत्युक्त्वा धनसुन्दर्या, पृष्टं किं ते प्रयोजनम् ? । केवलिप्रोक्तवृत्तान्तं, सोऽपि तस्यै न्यवेदयत् । अत्रान्तरे समायातो, धनी सञ्चयशीलकः ॥१२०॥ दर्शितं च ततस्तेन, भोगदेवस्य सुन्दरम् । गेहमेकं ततस्तत्र, तस्थौ सोऽपि निराकुल: ॥१२१।। अन्यस्मिंश्च दिने शस्ते, प्रसूता धनसुन्दरी । द्योतयन्तं दिशां चक्रं, सुरूपं चारुदारकम् ॥१२२॥ वर्धापितस्ततो गत्वा, दास्यासौ सार्थवाहक: । सोऽपि व्ययत: सम्भीतो, मौनमालम्ब्य संस्थितः॥ विलक्षवदना दासी, निरानन्दा न्यवर्तत । गेहत: सार्थवाहोऽपि, निर्ययौ सहसा बहिः ॥१२४॥ अन्यदा धनसुन्दर्या, सोपालम्भमभाण्यसौ । अपुत्राया अयं जात:, पुत्रो बृहन्मनोरथैः ॥१२५॥ अत्यन्तं त्वं पुनर्लोभाद्, द्रविणव्ययभीरुक: । न ददासि न चाश्नासि, सदपीदं गृहे धनम् ।।१२६।। १ पर्षदे-BJCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org