________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
आद्या प्राह तव क्षेमं, द्वितीयेदं ततोऽवदत् । दानभोगादिकृत्येषु, भोगदेवेन भोगिना ।। १५५ ।। नित्यं व्यापार्यमाणायाः, कौतस्त्यं मे सुखं सखि ! । इत्यावेद्य तया पृष्टं, त्वं तु कुत्रावतिष्ठसे ? ॥ साप्रा सखि ! तिष्ठामि, सञ्चयशीलवेश्मनि । आद्याह सुखवासस्ते, द्वितीया प्राह नो सखि ! ॥ यतस्तिष्ठामि निक्षिप्ता, नित्यमत्यन्तभीषणे । 'अन्धकारे महागर्ते, चारक इव बन्दिनी ॥ १५८ ॥ अत: कुतः सुखावासः ?, कुतो निद्रा ? कुतो धृति: ? । अदृष्टसूर्यचन्द्राया, वसन्त्या मम गर्तके ॥ आकर्ण्येदं ततश्चित्ते, भोगदेवेन चिन्तितम् । अहो सुदुःखिते एते, दूरं द्वे अपि तिष्ठतः ॥ १६०॥ अहो लोके नैवास्याः, करिकर्णचलश्रियः । स्थिरीकरणतोपायः, कोऽपि कुत्रापि विद्यते ॥ १६९ ॥ नेयं शौचेन संसाध्या, न भक्त्या न पराक्रमैः । न दानतो न पूजात:, न चैवोद्यमसाहसैः ॥ १६२॥ इयं हि स्थेयसी नैव, लक्ष्मीः कस्यापि भूतले । दातुस्तृष्णापरस्यापि, त्यागिनो भोगिनोऽपि वा ॥ तदेषा यावदद्यापि, मां सहसा न मुञ्चति । एतामेव चलां ताव - त्सन्त्यजामि चलश्रियम् ॥१६४|| इत्यादि बहु सञ्चिन्त्य, कृतसामग्रीकः प्रगे । गतो भोगपुरे शीघ्रं, विशुद्धाध्यवसायभृत् ॥ १६५ ॥ ततः कृत्वा जिनेन्द्राणां, सुसाधूनां च पूजनम् । दत्त्वा दीनादिदानं च, सम्भाष्य च सुहृज्जनम् ॥१६६॥ भोगदत्ताभिधं पुत्रं, विधाय गृहचिन्तकम् । प्रातर्दीक्षां जिनोद्दिष्टां ग्रहीष्यामीति चिन्तयन् ॥ सुप्तो रात्रौ श्रिया प्रोक्तो, भोगदेवः सखेदया । अहो अहं त्वया दत्ता, प्रयुक्ता च यथेप्सितम् ॥१६८॥ त्यक्ताहमत्यजन्त्येव, त्वया विद्वन् ! विवेकिना । त्वद्वाञ्छितं करिष्यामि, तस्मान्मामीश ! मा मुच ॥ मत्पुत्रेण समं सम्यग्वर्तितव्यं त्वया सदा । एवमीश करिष्येऽह - मित्युक्त्वा श्रीस्ततो गता ॥ १७० ॥ द्वितीयदिवसे सार्धं, भोगवत्या विभूतितः । गृहीतां भोगदेवेन, दीक्षा सद्गुरुसन्निधौ ॥ १७१ ॥ परिपाल्य चिरं चारु, निष्कलङ्कं निजं व्रतम् । विहिताराधनो मृत्वा, सर्वार्थसिद्धिमाप सः ॥ १७२ ॥ भोगवत्यपि तत्रैव, समुत्पन्ना शुभोदयात् । ततश्च्युत्वा प्रयास्यन्ती, निर्वाणपुरमुत्तमम् ॥१७३॥ अथ तस्य तया लक्ष्म्या, मुक्तस्याशुभयोगतः । श्रीदेवस्य महारौद्र - दारिद्यार्दितचेतसः || १७४|| अत्रान्तरे मृतः पुत्रः, स निष्पुण्योपलक्षणः । ततः श्रीरपि तद्नेहे, प्रादुर्भूता पुनर्भृशम् ॥१७५॥ ततस्तदेव पूज्यत्वं, लोके सैव च मान्यता । यतो विभव एवेह पूज्यते नहि मानवः || १७६ || अथान्यदा रजन्यां तु, सुंप्तो वरपर्यङ्कके । रुदन्तीं ललनां दृष्ट्वा, तामपृच्छत्स विस्मितः ॥१७७|| भद्रे ! का त्वं ? किमर्थं वा ? रोदिष्येवं सुदुःखिता । तया प्रोक्तमहं लक्ष्मी - र्वास्तव्या तव मन्दिरे ॥ रोदितव्ये पुनः श्रेष्ठिन् !, सदा सद्भक्तिकारकः । अतर्कितो ममाकाण्डे, त्वद्वियोगोऽत्र कारणम् ॥ यतो येयं त्वया भार्या, परिणीता द्वितीयका । सर्वपुण्यविनिर्मुक्ता, नूनं लक्ष्मीसुदुर्भगा ॥ १८० ॥ न तया सममेकत्र, वासो मेऽस्ति कदाचन । इत्युक्त्वा तत्क्षणादेव, जगाम श्रीरदर्शनम् ॥१८१॥ भूयोऽपि तस्य दारिद्यं, तदेवोच्चैरजायत । तदेव लाघवं लोके, स एव च पराभवः ॥ १८२॥
१ महान् BJC | २ प्रातः कृतसामग्रिक:- BJC
३७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org