________________
२९४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततो वरधनुइँते, द्वितीये वासरे यथा । गन्तव्यं दूरमावाभ्यां, किं कुमार! विलम्ब्यते ? ॥१४८॥ बन्धुमत्या निजं सर्व-मभिप्रायं निवेद्य च । निर्गच्छावो यथाशक्त्या, स्वाभिप्रेतं दिगन्तरम् ।।१४९॥ तथा कृत्वा गतौ तस्मा-त्स्थानाच्च ग्राममेककम् । प्रविष्टस्तत्र नीरार्थं, वरधनुस्तत: क्षणात् ।।१५०॥
आगत्य प्रवदत्येवं, ग्राममध्ये श्रुतं मया। सुरङ्गया प्रयातस्य, ब्रह्मदत्तस्य सर्वत: ॥१५१॥ दीर्पण निजकैः पुम्भि-र्मार्गा बन्धापिता: किल । तत्कुमारोत्पथेनावां, प्रगच्छावस्तथा कृतम् ॥१५२।। उन्मार्गेणाथ गच्छन्तौ, प्रविष्टौ तौ महाटवीम् । ततो न्यग्रोधवृक्षाधो, मुक्त्वातीव तृडर्दितम् ॥१५३॥ कुमारमगमन्नीर-हेतोर्वरधनुः स्वयम् । भ्राम्यंस्तत्र दिनस्यान्ते, दीर्घनिर्युक्तकैनरैः ॥१५४॥ यमदूतैरिवालोकि, वरधनुस्ततस्तकैः । हन्यमानश्च दूरस्थ:, सङ्केतं कृतवानसौ ॥१५५॥ ब्रह्मदत्तस्ततस्तूर्णं, नष्टवांस्तत्प्रदेशत: । पतितश्च महाभीम-मरण्यमतिदुर्गमम् ॥१५६॥ ततस्तृषाक्षुधाक्रान्तो, व्यतिक्रम्य महाटवीम् । तृतीये दिवसेऽपश्य-त्तत्रैकं किल तापसम् ॥१५७|| तदर्शनेन सञ्जाता, जीविताशा ततस्तकम् । पप्रच्छ च यथा कुत्र, भगवन्नाश्रमस्तव ॥१५८।। तेनाप्यावेद्य नीतश्च, पार्श्वे कुलपतेरसौ । नत: कुलपते: पाद-पद्मयुग्मं नताङ्गकः ।।१५९।। पृष्टस्तेन यथा वत्स!, कथमत्रागमस्तव । तेनापि मूलत: सर्वो, वृत्तान्त: कथितो निजः ॥१६०॥ तत: कुलपति: प्राह, भो! वत्सक!, पितुस्तव । भवामि ब्रह्मभूपस्य, पितृव्योऽहं कनिष्ठकः॥१६१।। अतस्तदीय एवाय-माश्रमो वत्स! सर्वथा । तस्मात्तिष्ठ त्वमत्रैव, सोऽपि तस्थौ तथैव च ॥१६२।। तिष्ठस्तत्र सुखेनासौ, धनुर्वेदादिका किल । तापसस्वामिना तेन, ग्राहित: सकला: कला: ॥१६३॥ तावच्च वृषभाह्लादी, शरत्काल: समाययौ । निष्पन्नशस्यसम्पद्भि-स्तोषिताशेषपामरः ॥१६४|| अन्यदा च समाचेलु-स्ते तापसकुमारका: । कन्दमूलफलाद्यर्थं, विकटामटवीमभि ॥१६५|| तैश्च सार्धं कुमारोऽपि, वार्यमाणोऽपि तापसै: । गतस्तत्र महारण्ये, कौतुकाक्षिप्तमानस: ।।१६६॥ पुष्पफलसमृद्धानि, वीक्षमाणो वनानि सः । तत्र हस्तिनमद्राक्षी-न्मत्तं वनप्रचारिणम् ॥१६७|| तं दृष्ट्वा दूरविस्तारि, चकार गलगर्जितम् । तत्समाकर्ण्य वेगेन, चलितस्तन्मुखं गजः ॥१६८॥ कुमारोऽपि ततस्तस्य, गजस्याभिमुखं जवात् । कृत्वा विण्टलिकां स्वीय-मुत्तरीयकमक्षिपत्॥१६९।। करिणापि कराग्रेण, तत्समादाय सत्वरम् । व्योमनि क्षिप्तमत्यर्थ-मित्येवं स पुन: पुन: ॥१७०॥ नीत: खेदं कुमारेण, यावत्कोपवशं गतः । तावदुत्पत्य तत्स्कन्ध-मारूढः प्रौढविक्रमः ॥१७१॥ ततो नानाप्रकाराभिः, क्रीडाभि: कुमरश्चिरम् । तं गजं श्रममानीय, मुमोच गतकौतुकः ॥१७२।। तत: प्रतिपथेनैव, प्रविष्टो गन्तुमुच्चकैः । मूढपूर्वादिदिग्भाव, इतश्चेतश्च पर्यटन् ॥१७३। प्रेक्षते स्म नदीतीरे, पुरमेकं पुरातनम् । पतितानेकगेहौघ-भित्तिमात्रोपलक्षितम् ॥१७४|| यावत्तदर्शनोद्भूत-कौतुक: प्रविलोकयन् । सर्वतो याति वेगेन, कुमारस्तावदीक्षते ॥१७५|| पार्श्वमुक्तासिमुद्दाम-विस्फुर्जच्चन्द्रखेटकम् । नीलाभं सुन्दराकार-मेकं वंशकुडङ्गकम् ।।१७६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org