________________
अधिकार १२ / लोक २६३ / चित्रसम्भूतिकथा ( ब्रह्मदत्तचक्रिकथा)
इतश्च ब्रह्मदत्तस्य, कार्यावहितचेतसा । गत्वा दीर्घो नराधीशो, विज्ञप्तो धनुमन्त्रिणा ॥ ११९॥ यथैष वरधनुर्जातः, समर्थो राज्यचिन्तने । अहं तु कर्तुमिच्छामि, धर्मं सम्प्रति भूपते ! ॥१२०॥ ततोऽसौ कैतवेनैव, बभाण धनुमन्त्रिणम् । विधेहि धर्ममत्रैव, किमन्यत्र गतेन ते ? ॥१२१॥ तेनाऽपि प्रतिपद्येदं, गङ्गातीरे महाप्रपा । कारिता दीयते तत्र, दीनादिभ्योऽन्नपानकम् ॥१२२॥ ततः सद्दानसन्मान-सङ्गृहीतैः स्वपौरुषैः । सुरङ्गा खादिता भद्रा, गव्यूतद्वयगामिनी ॥ १२३॥ नीत्वा जतुगृहे मुक्ता, समायाता च सा वधूः । अभूद्विवाहनेपथ्या, महर्द्धया पुरमाविशत् ॥ १२४॥ सुमहद्धर्या च संवृत्तो, विवाहोऽतिमनोहरः । विसर्जितस्तदायातो, लोकः सन्मानपूर्वकम् ॥ १२५॥ तदूर्ध्वं च तया सार्धं, कुमारः प्रेषितो निशि । तद्देहे च गतः सोऽपि, विसर्जितपरिच्छदः ॥ १२६ ॥ ॥ वधूवरधनुभ्यां च, सार्धं तत्रावतिष्ठतः । कुमारस्य गतं याव-द्यामिनीप्रहरद्वयम् ॥१२७॥ ततो दीर्घोदितैः पुम्भि-र्ज्वलितं जतुमन्दिरम् । ततः प्रोच्छलितस्तत्र, रौद्रो हाहारवो भृशम् ॥ १२८॥ ततः किमु करोमीति, मूढचित्तकुमारकः । किमेतदिति भो मित्र !, वरधनुं स पृष्टवान् ॥१२९॥ अभाणि तेन भो भद्र !, नेयं सा राजपुत्रिका । अन्या काचिदियं तस्मान्मा कृथाः सङ्गमत्र भोः ! ॥ १३० ॥ पार्ष्णिदृढप्रहारेण, स्थानमेतद्धि हन्यताम् । निर्गच्छाव इतो येन, तेनापि च तथा कृतम् ॥१३१॥ ततो भित्त्वान्तरस्थानं, विनिर्गत्य सुरङ्गया । वरधनुः कुमारश्च सुरङ्गाद्वारमागतौ ॥ १३२॥ इतश्च धनुना तत्र, पूर्वमेव नियोजितौ । सुजात्यतुरगारूढौ, प्रच्छन्नौ पुरुषौ निजौ ॥१३३॥ अथ सङ्केतकस्ताभ्यां, वरधनो: प्रमेलितः । तत आरुह्य ताववौ, प्रवृत्तौ गन्तुमुच्चकैः ॥१३४|| गतौ वेगविमुक्ताश्वौ, पञ्चाशद्योजनानि तौ । अथ दीर्घाध्वखेदेन, मह्यामश्वौ निपेततुः ॥ १३५ ॥ सम्प्रवृत्तौ ततो गन्तुं, पादाभ्यामेव सत्वरम् । प्राप्तौ कोट्यभिधानंच, ग्राममेकं क्रमादमू ॥१३६॥ अथाभाणि कुमारेण भो भो वरधनोऽधुना । तृषा मां बाधते बाढं, परिश्रान्तोऽस्मि सर्वथा ॥ १३७॥ ततो वरधनुर्गत्वा, ग्राममादाय गण्डकम् । समायातः कुमारस्य, ततो मुण्डापितं शिरः || १३८|| कषायरक्तवस्त्राणि, कुमारः परिधापितः । श्रीवत्सालङ्कृतं वक्षः, पट्टेनाच्छादितं तथा ॥ १३९ ॥ चक्रे वेषपरावर्तं, वरधनुरपि स्वयम् । ग्रामस्यान्तः प्रविष्टौ तौ यावत्तावद् द्विजालयात् ॥१४०॥ निर्गत्यैकेन दासेन, सादरं तौ प्रभाषितौ । यथेहागत्य भो विप्रौ, भुज्यतां तातमन्दिरे ॥ १४१ ॥ ततो गतौ तकौ तत्र, भुक्तौ च प्रतिपत्तित: । तदन्ते च वरैका स्त्री, ब्रह्मदत्तस्य मूर्धनि ॥१४२॥ बन्धुमतीं समुद्दिश्य, प्रक्षिपत्यक्षतान् वरान् । ब्रवीति चैष भर्तास्याः, कन्यकाया भवत्विति ॥ एतदाकर्ण्य साकूतं, ब्रूते वरधनुस्ततः । किमेतस्य कृते मूर्ख - बटोरेवं प्रखिद्यसे ? || १४४ || ततः प्राह गृहस्वामी, श्रूयतां कथ्यते तव । नैमित्तिकेन मे येन, समादिष्टं यथा किल ॥ १४५ ॥ य: पटाच्छादितोरस्कः, समित्रस्तव मन्दिरे । भोक्ष्यते च स एवैनां, कन्यकां परिणेष्यति ॥१४६॥ इत्यादि सर्वमावेद्य, तस्मिन्नेव हि वासरे । कुमारः कारितस्तेन, पाणिग्रहणमुच्चकैः ॥१४७॥
I
Jain Education International
For Private & Personal Use Only
२९३
www.jainelibrary.org