________________
२९२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तस्थुर्निजनिजे राज्ये, क्रमात् समुदिता: किल । भोगान् वरविलासांश्च, भुञ्जाना: सुमनोहरान् ॥९०॥ अन्यदा तिष्ठतां तेषां, सानन्दं ब्रह्ममन्दिरे । समुत्पन्न: शिरोरोगो, दुःसाध्यो ब्रह्मभूपतेः ॥११॥ ततस्तेन समाकार्य, कटकादीन् वयस्यकान् । तेषामुत्सङ्गके मुक्तो, ब्रह्मदत्तो निजाङ्गज: ।।१२।। उक्ताश्चैते यथा भो भो, युष्माभि: सर्वथाप्ययम् । कारयितव्य: प्रयत्नेन, राज्यमात्मीयपुत्रवत् ॥१३॥ एवं कृत्वा निजे राज्ये, सौस्थ्यं कालगतो नृपः । कृतं च वयस्यैस्तस्य, मृतकार्यं यथोचितम् ॥१४॥ तत: कटकादिभि: प्रोक्तं, यावदेष कुमारकः । भवेद्राज्यधुरं धर्तुं, शक्तस्तावदिदं किल ॥९५।। राज्यं पाल्यमस्माभि-रेवमालोच्य मानसे । दीर्घं तत्र च संस्थाप्य, स्वराज्येष्वितरे गताः ॥९६।। गतेषु तेषु दीर्घोऽपि, राज्यं पालयतेऽखिलम् । प्रपश्यत्यश्वहस्त्यादि, विशत्यन्त:पुरेऽपि सः ॥९७॥ चुलन्या च समं राज्य-कार्यं चिन्तयते मिथ: । ततोऽतिदुर्निवारत्वा-दिन्द्रियाणां स्मरस्य च ॥९८॥ अपकर्ण्य च कौलीन्यं, मुक्त्वा च ब्रह्मसौहृदम् । सम्प्रलग्नश्चलन्यैव, सार्धं कामविमोहित: ॥१९॥ एवं च वर्धमानाति-प्रेम्णोर्विषयसक्तयोः । व्रजन्ति वासरा गाढं, महामोहविमूढयोः ॥१००॥ ततो ब्रह्मनरेन्द्रस्य, धनु:संज्ञितमन्त्रिणा । चुलनीदीर्घवृत्तान्तो, ज्ञात: सर्व: परिस्फुटम् ॥१०१॥ तेन चाचिन्ति य: पाप:, करोत्यकृत्यमीदृशम् । स कथं ब्रह्मदत्तस्य, कल्याणं चिन्तयिष्यति ॥१०२॥ विचिन्त्यैवं स्वपुत्रस्य, वरधनोर्निवेदितम् । यथा पुत्र ! कुमारस्य, मातेयं दुष्टशीलका ॥१०३॥ तदस्य ज्ञापयस्वेमं, वृत्तान्तं रहसि स्फुटम् । तेनापि स च नि:शेषं, कुमाराय निवेदितः ॥१०४|| कुमारोऽप्यसहनेत-त्स्वमातुर्दुष्टचेष्टितम् । तस्यास्तद्ज्ञापनायैव, क्रीडया कृतवानिदम् ॥१०५॥ काककोकिलयोर्युग्मं, गृहीत्वा जननीपुर: । रटद्व्यापादयामास, दुश्चारीदं रुषा वदन् ॥१०६।। अन्योऽपि कोऽपि यश्चैवं, मद्राज्ये प्रकरिष्यति । तस्यैवं निग्रहं घोरं, करिष्येऽहं न संशयः ॥१०७॥ अथासौ वासरेऽन्यत्र, गृहीत्वा भद्रहस्तिनीम् । सङ्कीर्णहस्तिना सार्ध-मायातो राजमन्दिरे ॥१०८॥ ततस्तं हस्तिनं रुष्टो, व्यापादयितुमुद्यत: । निवारितश्च तत्रस्थ-राजलोकै: कथञ्चन ॥१०९॥ ततो दीर्घो विदन्नेवं, बभाण चुलनीं यथा । अहं काकः कृतोऽनेन, त्वं पुन: कोकिला प्रिये!।११०। श्रुत्वेदं चुलनी प्राह, बालकोऽयं कुमारकः । यद्वा तद्वा लपत्येवं, मान्यथा त्वं विचिन्तय ॥१११॥ दीर्घः प्रोवाच नैवेद-मन्यथा भवति प्रिये ! । व्यापाद्यतां कुमारोऽयं, रतिसौख्यविघातकृत् ॥११२॥ स्वाधीने मयि तेऽन्येऽपि, भविष्यन्ति हि पुत्रका: । ततस्तयापि तद्वाक्यं, प्रतिपन्नं विमूढया ॥११३।। तयोक्तं यद्ययं नाथ ! व्यापाद्यते कुमारकः । अलक्षितो जनैः सर्वै-स्तदेदं सुन्दरं भवेत् ॥११४॥ दीर्घेणोक्तमिदं कार्य, स्तोककं सुकरं तथा । क्रियतेऽत्र कुमारस्य, विवाहोऽतिप्रपञ्चत: ॥११५॥ तत्सामग्र्या सहानेक-स्तम्भराजिविराजितम् । महज्जतुगृहं गूढ-निर्गमादि विधाप्यताम् ॥११६॥ विवाहानन्तरं तत्र, वह्निदानप्रयोगत: । अलक्षितमिदं कार्य, क्रियतामिति मे मतिः ॥११७॥ समालोच्यैवमेकस्य नृपस्य दुहिता वृता । प्रारब्धा च विवाहार्थं, तत: सामग्रिकाखिला ॥११८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org