________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
२९१
कालान्तरेण सम्प्राप्तौ, पुरे गजपुराभिधे । स्थिते च बहिरुद्याने, स्थाने साधुजनोचिते ॥६२॥ अन्यदा च पुरस्यान्त-सक्षपणपारणे । सम्प्रविवेश भिक्षार्थं, मुनि: सम्भूतिनामकः ॥६३॥ अथोच्चनीचगेहेषु, तं भ्राम्यन्तं पथान्तिके । स मन्त्री नमुचिर्नाम, स्वगेहस्थो व्यलोकयत् ॥६४।। विज्ञातश्च यथा सोऽय-महो मातङ्गदारकः । कथयिष्यति मामेष, भूभुजेऽन्यजनाय च ॥६५॥ इत्याशङ्कितचित्तेन, तेन तस्य महामुनेः । पुर्या निष्काशनार्थाय, प्रेषिता: पुरुषा निजा: ॥६६।। गत्वा तैरपि तत्राशु, यष्टिमुष्टयादिभिर्भृशम् । स साधु: कटुवाक्यैश्च, नानाकारं कदर्थितः ॥६७॥ ततस्तैर्हन्यमानस्य, मुनेस्तस्य निरागस: । तेषां वधाय निष्क्रान्ता, तेजोलेश्या मुखाम्बुजात् ॥६८॥ ततश्च धूममालाभि:, कृष्णाभ्रपटलैरिव । व्योमेव नगरं सर्वं, सर्वतोऽप्यन्धकारितम् ॥६९॥ अथागता जना: पौरा:, कौतुकेन भयेन च । वन्दित्वा पादयोर्लग्ना-स्तं शमयितुमुद्यता: ॥७०|| तथा सनत्कुमारोऽपि, चक्री तत्र समागत: । तं मुनि शमयत्युच्चै-र्यावन्नासौ प्रशाम्यति ॥७१।। तावदाकर्ण्य लोकेभ्यो, नगरं च समन्तत: । भूरिधूमाकुलं दृष्ट्वा चित्राख्यो मुनिरागत: ।।७२॥ तं मुनि शमयत्युच्चै-र्यावन्नासौ प्रशाम्यति ! विध्यापित: स चित्रेण, तस्य क्रोधदवानल: ॥७३।। सम्भूतोऽपि ततो भूरि-वैराग्यातिशयं दधत् । निवर्तितस्तदुद्देशा-त्तदुद्यानं ततो गतौ ॥७४॥ चिन्तितं च मनस्याभ्या-मावां संलिखिताङ्गकौ । तस्मादनशनं कर्तुं, सम्प्रति युक्तमावयोः ॥७५॥ विचिन्त्यैवं निजे चित्ते, स्थितावनशनेन तौ । ज्ञात्वा नमुचिवृत्तान्तं, सनत्कुमारचक्रिणा ॥७६।।। रुष्टेन रज्जुभिर्बद्धो, नीतोऽसौ मुनिसन्निधौ । ताभ्यामपि भयोद्धान्त:, कारुण्यात्स विमोचितः ॥७७।। गत्वा सनत्कुमारोऽपि, ववन्दे तौ महामुनी । सार्धमन्त:पुरेणैव, सानन्दो भक्तिपूर्वकम् ।।७८॥ स्त्रीरत्नस्य सुनन्दाया:, पतन्त्या: पादयोस्तत: । बभूवालकसंस्पर्शः, सम्भूतस्य पदद्वये ॥७९॥ ततश्चालकसंस्पर्श-मनुभूयातिकोमलम् । वार्यमाणोऽपि चित्रेण, मुनि: सम्भूतिनामकः ।।८०॥ यद्यस्ति तपसोऽमुष्य, फलं तेन भवान्तरे । भूयासं चक्रवर्तीति, निदानमकरोदसौ ॥८१॥ ततो मृत्वा समुत्पन्नौ, सौधर्मे द्वावपि सुरौ । तत्रानुभूय देवर्द्धिं, चित्रजीवस्ततश्च्युतः ॥८२।। पुरे पुरिमतालाख्ये, इभ्यपुत्रतयाजनि । च्युत्वा सम्भूतिजीवोऽपि, काम्पिल्याभिधपत्तने। राज्ञो ब्रह्माभिधानस्य, चुलनीगर्भसम्भव: । चतुदर्शमहास्वप्न-सूचितोऽजनि दारकः ॥८४॥ विभूत्या विहितं नाम, ब्रह्मदत्त इति स्फुटम् । देहोपचयतो वृद्धिं, कलाभिश्च समं ययौ ॥८५।। तस्य च ब्रह्मभूपस्य, बभूवुः सुवयस्यका: । चत्वारश्चतुरालापा, विशालकुलशालिनः ॥८६॥
काशीजनपदाधीशो, भूपाल: कटकाभिध:। :
श्रीमत्कणेरदत्ताख्यो, राजा गजपुराधिप: ॥८७।। : कोशलाविषयाधीशो, दी? नाम नरेश्वर:। आसीच्चम्पापुरीनाथ: पुष्पचूलाभिधानकः।८८। ते च परस्परं सर्वे, वियोगाऽनभिकाङ्क्षया । वर्षमेकैककं याव-द्राढस्नेहानुरागत: ॥८९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org