________________
२९०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
विशेषेणागतास्तत्र, सानन्दास्तरुणस्त्रियः । प्रविशन्ति स्म तन्मध्ये, नि:शङ्का: कौतुकाकुला: ॥३४॥ ततश्चेालुकत्वेन, लोकेन ब्राह्मणादिना । शङ्खाय नरनाथाय, वृत्तान्तोऽयं निवेदितः ॥३५।। यथा मातङ्गपुत्राभ्यां, देवायं नगरीजन: । विटालित: समग्रोऽपि, यद्विजानासि तत्कुरु ॥३६॥ ततस्तयोर्नृपेणापि, प्रवेशो वारित: पुरि । एवं च विहिते तत्र, गत: काल: कियानपि ॥३७|| अथान्यदा च सञ्जाते, कौमुदीसुमहोत्सवे । लोलेन्द्रियतया बाढं, कौतुकाकुलमानसौ ॥३८॥ विस्मार्याज्ञां नरेन्द्रस्य, विमुच्य च स्वभूमिकाम् । प्रविष्टौ नगरीमध्ये, तौ चित्रकसम्भूतकौ ॥३९॥ एकत्र प्रेक्षणं रम्यं, तयोः सम्प्रेक्ष्यमाणयोः । श्रुत्वान्यजम्बूकध्वानं, जम्बूकानामिवोच्चकैः ॥४०॥ रसिकत्वान्मुखं भङ्क्त्वा , गीतं निर्गतमञ्जसा । प्रगातुं च समारब्धौ, निजवस्त्रावृताननौ ॥४१॥ कर्णामृतरसस्यन्दि, सङ्गीतं सुमनोहरम् । श्रुत्वा तौ भूरिलोकेन, परित: परिवेष्टितौ ॥४२।। गीतेनानेन न: केन, श्रवणामृतवर्षिणा । बाढमुत्पादितं सौख्य-मित्युक्तं च जनैमिथ: ।।४३।। समाकृष्य ततस्तूर्ण-मुत्तरीयाणि तन्मुखम् । वीक्षितं तेन लोकेन, विज्ञातौ च तकौ ततः ॥४४॥ तावेवैतौ हि मातङ्ग-दारको पापकारकौ । अहो यष्टयादिभिर्बाढं, हन्यतां हन्यतामिति ॥४५।। ततो लताचपेटाद्यै-हन्यमानौ पदे पदे। लोकेनाकृष्यमाणौ च, नगरीतो विनिर्गतौ ॥४६॥ प्राप्तौ च बहिरुद्याने, ततो दूनितचेतसौ । संचिन्तयितुमारब्धौ, निन्दन्तौ च निजं कुलम् ॥४७|| अहोऽत्यर्थो गुणग्राम:, समग्रोऽपि च मामक: । रूपयौवनसौभाग्य-गीतनृत्यकलादिकः ॥४८॥ मातङ्गजातिदोषेण, येनायं दूषितोऽखिलः । तेनैव च पराभूतौ, लोकेनावां पदे पदे ॥४९॥ अनाख्यायैव बन्धूनां, वैराग्यं दधतौ महत् । दक्षिणां दिशमाश्रित्य, प्रवृत्तौ मृतिहेतवे ॥५०॥ गतौ दूरतरं देशं, दृष्टश्चैको महागिरिः । 'आरूढावथ तौ तस्मि-न्नथैकत्र शिलातले ॥५१॥ प्रलम्बितभुजद्वन्द्वं, ध्यायन्तं ध्यानमुत्तमम् । कायोत्सर्गेण तिष्ठन्तं, मुनिमेकमपश्यताम् ।।५२।। तं दृष्ट्वा जातहर्षों तौ, गतौ तच्चरणान्तिकम्। सद्भक्त्यावन्दितस्ताभ्यां, साधुः साधितसक्रियः॥५३॥ ध्यानं समाप्य तेनापि, धर्मलाभं प्रदाय च । पृष्टौ तौ भो युवामत्र, किमागमनकारणम् ॥५४॥ ताभ्यामपि स्ववृत्तान्त-समाकर्णनपूर्वकम् । तस्मै सुसाधवे सर्वः, स्वाभिप्रायो निवेदितः ॥५५॥ यथा साधो ! मरिष्याव:, पतित्वातो महागिरेः । श्रुत्वेदं साधुनाभाणि, संवेगरसपेशलम् ॥५६॥ यथा भो भद्रकौ ! नेदृ-ग्युक्तं कर्तुं भवादृशाम् । बाढं बन्धुरबुद्धीनां, प्राकृतजनचेष्टितम् ॥५७॥ शारीरमानसानेक-दुःखानलघनावली । सर्वज्ञभाषिता दीक्षा, भवद्भ्यां क्रियतामिति ॥५८।। ततो बृहत्तरव्याधि-पीडितैरिव रोगिभिः । वैद्यस्येव मुनेस्तस्य, वाक्यं ताभ्यां प्रतीप्सितम् ॥५९॥ योग्याविति [च] विज्ञाय, तेनापि तौ [च] दीक्षितौ । कालक्रमेण गीतार्थो जातौ गुरुप्रसादत: ।।६०॥ षष्ठाष्टमादिरूपेण, विकृष्टतपसौ ततः । भावयन्तौ निजात्मानं विहरन्तौ महीतले ॥६॥ १ आरोहतौ च तौ-JB ||
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org