________________
अधिकार १२ / श्लोक २५५-२६३ / तपोमाहात्म्ये चित्रसंभूतिकथा
२८९
चतुर्भि: क्षुत्पिपासार्को, दृष्टो गोपालदारकैः । तत्कालोचितमाधाय, ततो भक्त्याभिवन्दितः ॥७॥ कृता च देशना तेन, साधुना साधुधर्मगा। प्रतिबुद्धास्तत: सर्वे, प्रव्रज्यां प्रतिपेदिरे ।।८॥ तप्यमानास्तपस्तीवं, विहरन्ति स्म भूतले। चक्रतुश्च मुनी द्वौ तु, जुगुप्सां धर्मगोचराम् ॥९॥ पालयित्वा चिरं दीक्षां, ततस्तौ त्रिदिवं गतौ । ततश्च्युत्वा पुरे रम्ये, दशार्णपुरनामनि ॥१०॥ साण्डिल्यद्विजसम्बन्धि-दासीकुक्षावुपागतौ । तस्यां द्विजेन तेनैव, जातौ यमलकौ तकौ॥११॥ क्रमाद्यौवनमापन्नौ, रम्यं रामाभिरामकम् । अन्यदा क्षेत्ररक्षार्थ-मंटव्यां तौ गतौ किल ॥१२।। तत्राधो वटवृक्षस्य, रात्रौ सुप्तौ ततोऽहिना । एको दष्टः सुहृष्टेन, निष्क्रम्य वटकोटरात् ॥१३॥ सर्पोपलम्भनार्थाय, भ्राम्यंस्तत्र प्रदेशके। द्वितीयोऽपि हि तेनैव, दष्ट: सर्पेण रोषत: ॥१४॥ तत्राकृतप्रतीकारौ, मृत्वा कालिञ्जरे नगे । मृग्यां युगलभावेन, सञ्जातौ मृगशावकौ ॥१५॥ एकत्रैव चरन्तौ तौ, पूर्वसम्प्रीतियोगत: । व्याधेनैकशरेणैवा-न्यदा व्यापादितौ ततः ॥१६॥ गङ्गातीरे समुत्पन्नौ, युग्मत्वेनैव हंसकौ । कालेन यौवनं प्राप्ती, स्नेहादेकत्र चारिणौ ॥१७॥ एकेन मत्स्यबन्धेन, गृहीत्वा पाशकेन तौ । कन्धरां वालयित्वा च, रटन्तौ विनिपातितौ ॥१८॥ ततो वाणारसीपुर्यां, मातङ्गस्यार्थशालिनः । भूतदत्ताभिधानस्य, सञ्जातौ पुत्रको तकौ ॥१९।। चित्रसम्भूतिनामानौ, तथैव प्रीतिसंयुतौ । सर्वाङ्गसुन्दराकारौ, लावण्यामृतकूपकौ ॥२०॥
इतश्च-तस्यामेव महापुर्यां, शङ्खो नाम नरेश्वरः।
_ नमुचिर्नामत: मन्त्री, राज्यकार्याण्यचिन्तयत् ॥२१।। स चान्यदाऽऽगसि क्वापि, राज्ञा रोषात्समर्पितः । मातङ्गभूतदत्ताय, प्रच्छन्नं वधहेतवे ॥२२॥ मातङ्गस्तमुवाचैवं, यदि भो मामको सुतौ । पाठयसि रह:स्थायी, तदा जीवसि नान्यथा ॥२३॥ ततश्च जीविताकाङ्क्षी, तद्वाक्यं प्रतिपद्य स: । तिष्ठन् भूमिगृहे तस्य, पुत्रौ पाठितवानिति ॥२४॥ एवं च तिष्ठते तस्मै, ददती भोजनादिकम् । गेहिनी भूतदत्तस्य, लग्ना तत्रैव मन्त्रिणि ॥२५॥ मत्वैवं भूतदत्तोऽपि, तं व्यापादितुमुद्यत: । विद्यागुरुरिति ताभ्यां, दारकाभ्यां स नाशितः ॥२६॥ पश्चाच्च पुण्ययोगेन, पुरे गजपुराभिधे । नमुचि: प्राप मन्त्रित्वं, सनत्कुमारचक्रिण: ॥२७॥ इतश्च तावपि प्रौढ-मारूढौ नवयौवरम् । चित्रसम्भूतिनामानौ, मातङ्गवरदारकौ ॥२८॥ प्रोल्लसल्लास्यगीतादि-कलासु सकलास्वपि । जनतानन्ददात्रीषु, परं प्रकर्षमागतौ ॥२९॥ गायन्तौ सुस्वरं गेयं, वेणुवीणादिसंयुतम् । वाराणसीजनं सर्वं, चक्रतुर्हतचेतसम् ॥३०॥ अन्यदा च जनानन्दे, सञ्जाते मदनोत्सवे । प्रवृत्तासु प्रभूतासु, जनताचर्चरीष्वलम् ॥३१॥ नृत्यन्तीषु पुरन्ध्रीषु, तरुणीषु नरेषु च । निर्गता चित्रसम्भूत-'पाणानामपि चर्चरी ॥३२॥ तत: सातिशयं श्रुत्वा, गीतनृत्यादिकं तयोः । वाराणसीजन: सर्व-स्तत्समीपमुपागतः||३३|| १JB | वीणयोश्चाऽपि चर्चरी-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org