SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २८८ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके षट्खण्डमहीनाथाश्चक्रवर्तिनो यद्यस्मान्नमन्ति नमस्यन्ति कृतादरा विहितादरा: प्राकृतस्यापि नीचस्यापि सत्त्वस्य जीवस्य तपस्या तप: कारणं निमित्तम् ॥२५६।। यन्नीचकुलजात इति श्लोकद्वयं स्पष्टम् ।।२५७-२५८॥ तपस्विनस्तपोधनास्तपस्येव तपस्यायामेव वसन्ति निवसन्ति निरन्तरं सततं, शापानुग्रहसामर्थ्य, शापो म्रियस्वेत्यादिभणनं, अनुग्रह: पुनर्जीवति भणनं, तयोः सामर्थ्य शक्तिस्तेषां तपस्विनां तदनुभावतस्तप:प्रभावात् ।।२५९॥ भूरिभोगकरं दानमिति श्लोक: सुगमः, नवरं यस्माच्छक्रोऽपि शङ्कत इति लौकिकदृष्टान्तमाह ॥२६०॥ यथा तेपे तप इति सुगमम् ॥२६१।। येन तीव्र तपस्तप्तमिति व्यक्तं, नवरं मनो मारितमिव मारितं तथा तेपे तप इति सुगमम्। धर्मशुक्लध्यानाध्यासादेकाग्रतां नीतं, भवाब्धिर्भवसमुद्रस्तस्य जन्तोर्गोष्पदं नितरां लघुरित्यर्थः ॥२६२॥ मोहं मिथ्यात्वमोहनीयं चारित्रमोहनीय च कर्म निहन्ति विनाशयति, अशुभतानवमशुभकर्मप्रकृतिकृशत्वमातनोति विस्तारयति, तथा संसृतिभयं संसारभीतिं भविनां संसारिणां भविष्णु भविष्यत्कालभावि भिन्ते नाशयति, नागेन्द्र इत्यादि स्पष्टमेव ॥२६३॥ चित्रसम्भूतिनाम्नोर्मातङ्गदारकयोश्चरितं हरिकेशमातङ्गचरितं च कथानकाभ्यामवसेयं, ते चेमे, तद्यथाअस्तीह विश्वविख्यातं, पुरं साकेतनामकम् । नानाकौतुकसंकीर्णं, सम्पूर्ण भूरिसम्पदा ॥१॥ बभूवाखिलभूपाल-मौलिमालार्चितक्रम: । पुत्रश्चन्द्रावतंसस्य, मुनिचन्द्राख्यभूपति: ।।२।। अथासौ कामभोगेभ्यो, निर्विण्णो भवभीरुक: । मुने: सागरचन्द्रस्य, समीपे व्रतमग्रहीत् ॥३॥ अन्यदा गुरुभि: सार्धं, कुर्वनुग्रतरं तप: । सम्प्रवृत्त: सुसार्थेन, दूरदेशान्तरं प्रति ॥४॥ अथासौ मुनिचन्द्राख्यो, महाटव्यास्तटस्थितम् । ग्राममेकं तु भिक्षार्थं, प्रविवेश समाहितः ॥५॥ ततो भिक्षां समादाय, प्रस्थित: सार्थपृष्ठतः । भ्रष्टस्ततो महाटव्या-मितश्चेतश्च पर्यटन् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy