________________
२८७
तपोऽधिकारः १२
उक्त: शीलाधिकारः, अथ तपोऽधिकार उच्यते, अस्य चायमभिसम्बन्ध:-अनन्तराधिकारे शीलमुक्तं, शीलवतामेव तपोऽपि प्रशंसास्पदमास्कन्दति, अतोऽत्र तप उच्यते, तत्र तपोमाहात्म्यं सप्रशंसं श्लोकनवकेनाह
तपः प्रतप्यमानस्य, क्षीयन्ते कर्मसञ्चयाः । 'तत्क्षयाच्च निर्वाणं, परमानन्दसुखं ततः ॥२५५।। षट्खण्डमहीनाथा, यन्नमन्ति कृतादराः ।। प्राकृतस्यापि सत्त्वस्य, तपस्या तत्र कारणम् ॥२५६।। यन्नीचकुलजातोऽपि, देवानां पूज्यतां गतः । हरिकेशबलः साधु-स्तपस्तत्र निबन्धनम् ।।२५७।। हीनजातितयोत्पन्नौ, नानालब्धिसमन्वितौ। चित्रसम्भूतिनामानौ, तपस्रा पूज्यतां गतौ ॥२५८।। तपस्विनस्तपस्येव, वसन्तीह निरन्तरम् ।। शापानुग्रहसामर्थ्य, तेषां तदनुभावतः ॥२५९।। भूरिभोगकरं दानं, शीलं श्लाघादिकारकम् । तपश्चाचिन्त्यसामर्थ्य, यस्माच्छक्रोऽपि शङ्कते ॥२६०॥ यथा तेपे तपः कोऽपि, महाटव्यां महातपाः । क्षोभाय प्रेषयामास, भीत इन्द्रः सुरस्त्रियः ॥२६१॥ येन तीव्र तपस्तप्तं, संयम्येन्द्रियपञ्चकम् । मनोऽपि मारितं येन, भवाब्धिस्तस्य गोष्पदम् ॥२६२॥ . मोहं निहन्त्यशुभतानवमातनोति, भिन्ते च संसृतिभयं भविनां भविष्णु। नागेन्द्रचन्द्रसुरराजपदं विधत्ते, तप्तं तपस्तनुभृतां किमु यन्न दत्ते ? ॥२६३॥
इति श्लोकनवकं सुगममेव, तथापि किञ्चिदुच्यतेतत्र प्रथमश्लोक: सुगम एव ॥२५५॥ .. १BIC । तत्क्षयाच्चाऽस्ति निर्वाणं-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org