________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
२९५
ततस्तेन तदादाय, खड्गरत्नं कुतूहलात् । तत्रैव वाहितं वंश-कुडङ्गे लीलया किल ॥१७७॥ एकेनैव प्रहारेण, छिन्ना सा वंशजालिका । ततो वंशान्तरस्थायि-वेपमानोष्ठसम्पुटम् ॥१७८॥ पपातैकं मनोहारि, शिर:कमलमुद्भटम् । दृष्ट्वा च तत्ततो हा! हा!, दुष्ठ दुष्ठ मया कृतम् ॥१७९।। धिग्मे व्यवसितेनेति, निन्दितमात्मपौरुषम् । सखेदो दृष्टवांस्तत्र, वीक्षमाण: कबन्धकम् ॥१८०॥ ऊर्ध्वबद्धपदद्वन्द्वं, धूमपानातिलालसम् । तदालोक्य च सञ्जाता, तस्यातिर्विशेषतः ॥१८१।। पुनश्च भ्रमता तंत्र, दृष्टमुद्यानमेककम् । तत्र प्रविशता तेना-ऽशोकपादपवेष्टितम् ॥१८२॥ सप्तभूमिकमालोकि, प्रासादं च मनोरमम् । ततश्च तं समारूढो, यावत्सप्तमभूमिकम् ॥१८३॥ दृष्टवांश्च मनोहारि-रूपां तत्र वरस्त्रियम् । पृष्टा च सा यथा भद्रे ! का त्वं किं चात्र तिष्ठसि ॥१८४।। तत: ससाध्वसा सापि, वक्तुमेवं प्रचक्रमे । यथा भो भो महाभाग ! मामकी महती कथा ॥१८५॥ त्वमेव तावदाचक्ष्व, कुतो वा यासि कुत्र वा ? । सुतारमधुरोदार-तद्वाक्याक्षिप्तचेतसा ॥१८६।। सर्वोऽपि निजवृत्तान्त:, कथितस्तेन तदग्रत: । सुन्दरि ! ब्रह्मभूपस्य, पञ्चालाधिपतेरहम् ॥१८७॥ पुत्रोऽस्मि ब्रह्मदत्ताख्य, एवं यावदिहागत: । ततो हर्षाश्रुपूर्णाक्षा, तदुक्तवागनन्तरम् ॥१८८॥ शीघ्रं साभ्युत्थिता बाला, पतिता तस्य पादयोः । रोदितुं च प्रवृत्ता सा, बृहच्छब्देन तत्पुरः ॥१८९।। तेनापि मुखमुन्नाम्य, मा रोदीरिति जल्पता। संस्थापिता कृपात: सा, वचोभिरतिकोमलैः ॥१९०॥ पृष्टा च का त्वमति, ततश्चेत्थं तयोदितम् । कुमार! पुष्पचूलस्य, मातुलस्य तवैव हि॥१९१।। दुहिताहं प्रदत्ता च, तुभ्यमेव गुणाकर! । गृहे प्रतीक्षमाणाह-मासं विवाहवासरम् ।।१९२॥ गृहोद्याननदीरम्य-पुलिने क्रीडती सती । दुष्टविद्याधरेणात्र, समानीता दुरात्मना ॥१९३॥ स्वबन्धुविरहेणाहं, यावत्तिष्ठामि दुःखिता । तावदचिन्त्यसौवर्ण-वृष्टितुल्य: समागत: ॥१९४|| जाता च जीविताशा मे, यत्त्वं दृष्टोऽसि सुन्दर! । ततोऽवाचि कुमारेण, कुत्रासौ मम वैरिकः ॥१९५॥ येनाहं तस्य पापस्य, परीक्षे भुजयोर्बलम् । तयोदितं गतो विद्या-साधनाय स ते रिपुः ॥१९६।। वंशकुडङ्गकेऽस्यैव, प्रासादस्य समीपके । विद्यां प्रसाध्य मामेष, कुमार: परिणेष्यति ॥१९७।। विद्या च किल तस्याद्य, सेत्स्यतीति सुनिश्चितम् । श्रुत्वेदं ब्रह्मदत्तेन, पुष्पवत्यास्ततोऽखिल: ॥१९८॥ तद्व्यापादनवृत्तान्त:, कथितो हृष्टचेतसा । तयाभाणि कृतं सुष्ठ, त्वयेति यदसौ हत: ।।१९९।।। गन्धर्वकविवाहेन, ततस्तां परिणीतवान् । स्थितवांश्च तया सार्धं, कञ्चित्कालं प्रमोदतः ॥२००॥ अन्यदा च श्रुतस्तेन, संलापो वरयोषिताम् । पृष्टा सानेन कस्यायं, शब्द: कर्णामृतोपमः ॥२०१॥ तयोक्तमार्यपुत्रैते, तस्य तावकवैरिण: । खण्डविशाखनाम्न्यौ च, स्वंसारौ हि कुमारिके॥२०२।। समादाय विवाहार्थ-मुपस्कारमिहागते । अतो यूयमत: स्थाना-दपक्रामत सत्वरम् ।।२०३।। भावोपक्रमणं याव-देतयो: प्रकरोम्यहम् । यदि प्रेमानयो: प्रौढं, युष्मानभि भविष्यति ॥२०४|| ततोऽहमार्यपुत्रस्य, प्रासादस्य शिर: स्थिता । चालयिष्यामि रक्ताभां, पताकामन्यथेतराम् ॥२०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org