________________
२९६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
श्रुत्वा चेदमुपक्रान्त:, कुमार: कियती भुवम् । त अप्यागच्छतां तत्र, विद्याधरकुमारिके ॥२०६।। लक्षितश्च तयोर्भाव:, पुष्पवत्या ततो द्रुतम् । हर्षातिरेकतो भ्रान्त्या, चेले शुक्लपताकिका ॥२०७॥ तामालोक्य कुमारोऽपिं, त्वरितं तत्प्रदेशत: । अपसृत्य गतो दूरे, गम्भीरे गिरिगह्वरे ॥२०८॥ गच्छता च ततो दृष्टं, रम्यमेकं सरोवरम् । प्रविष्टस्तत्र सानन्दं, मज्जितश्च यथाविधि ॥२०९॥ पश्चिमेन च तीरेण, समुत्तीर्णो गतश्रम: । दृष्टा च तेन तत्रैका, सुरूपा वरकन्यका ॥२१०॥ चिन्तितं च मनस्येव-महो मे पुण्यमालिका । येनेयं बालिका दृष्टा, लोचनोत्सवदायिनी ॥२११।। प्रलोकितश्च सानन्दं, तयापि कुमरश्चिरम् । पश्यन्ती तं तत: स्थाना-न्मन्दं मन्दं चचाल सा ॥२१२।। क्षणान्तरात्समायाता, तया प्रेषितचेटिका । ताम्बूलवरपुष्पादि-वरवस्त्रयुगान्विता ॥२१३।। अर्पयित्वा तकत्तस्मै, कुमारो भणितस्तया। भो भो भद्र ! त्वया दृष्टा, कन्यका या सरस्तटे ॥२१४॥ तयेदं प्रेषितं तुभ्यं, पुष्पायुक्तवती च माम् । हले वनलते! भद्रे, त्वं तस्याद्य महात्मनः ॥२१५॥ शयनादिस्थितिं सर्वां, कारयाऽमात्यमन्दिरे । तदेहि गम्यतां तत्र, क्रियतां भोजनादिकम् ॥२१६॥
जगामासौ तत: प्रोक्त-स्तया मन्त्री यया ह्ययम् ।
प्रेषितो भूपते: पुत्र्या, श्रीकान्तया त्वदालये ।।२१७।। द्रष्टव्य: सादरं चैष, मन्त्रिणापि तथा कृतम् । द्वितीये च दिने नीत:, कुमारो नृपसन्निधौ ॥२१८॥ राज्ञाप्यभ्युत्थित: सम्य-ग्दापितं चासनं धुरि । पृष्टश्च सर्ववृत्तान्तो, भोजितश्च सगौरवम् ।।२१९॥ भुक्त्वा तेनोदितं राज्ञा, कुमार! तव मादृशैः । नान्यत्किञ्चित्तथारूपं, विधातुं शक्यतेऽधुना ।।२२०॥ इत्यावेद्य प्रदत्ता सा, श्रीकान्ता निजपुत्रिका । प्रशस्तेऽहनि वृत्तश्च, विवाहो वरमङ्गलैः ॥२२१॥ अन्यदा च कुमारेण, प्रनिता सा यथा प्रिये! । किमर्थं त्वं प्रदत्तेह, मह्यमेकाकिनेऽपि हि ॥२२२।। तयोक्तमार्यपुत्रायं, तातो मे निजगोत्रिकैः । बलिष्ठैः प्रेर्यमाणोऽस्यां, पल्ल्यां विषममाश्रितः ॥२२३।। अयं च नगरग्रामान्, हत्वा श्रयति दुर्गकम् । श्रीमत्याख्या च तातस्य, प्रेयसी प्रेममन्दिरम् ॥२२४|| पुत्रचतुष्टयस्योर्ध्व-महं जातैकपुत्रिका । वल्लभा बन्धुवर्गस्य, तातस्य तु विशेषत: ॥२२५॥ यौवनस्था च तातेन, प्रोक्ता वत्से ! नृपा मम । सर्वे विरुद्धका येन, तिष्ठन्त्यास्तदिहैव हि ॥२२६॥ वरो मनोरमो यस्ते, स आवेद्यो मम त्वया । तत: पल्ल्या विनिर्गत्य, गत्वा चैतन्महासरः ॥२२७॥ पश्यामि पुरुषान्नित्यं, यावत्त्वं पुण्ययोगत: । दृष्टोऽत्र कामरूपश्री-स्तातो मां तेन ते ददौ ॥२२८॥ तत: संसारसौख्यानि, भुञ्जानस्य तया सह । सुरलोके सुरस्येव, व्यतिक्रामन्ति वासरा: ॥२२९॥ अन्यदा पल्लीनाथोऽसौ, भूरिभटान्वितो गत: । हन्तुं ग्रामं कुमारोऽपि, तेनैव च समं गतः ॥२३०॥ तावद्वरधनुस्तेन, दृष्टो ग्रामस्य बाह्यत: । रम्ये पद्मसरस्तीरे, प्रत्यभिज्ञातवान् क्षणात् ।।२३१॥ सोऽपि तं प्रत्यभिज्ञाय, प्रवृत्तो रोदितुं ततः । निवारित: कुमारेण, समीपे चोपवेशित: ॥२३२॥ ततो वरधनु: प्राह, भो कुमार ! किमु त्वया । मद्वियोगे समासादि, समावेदय मेऽधुना ॥२३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org